पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयः खण्डः २] छान्दोग्योपनिपत्। हरति-भवत्येवमितिः । ऋषीणामगिरोबृहस्पत्यादिशब्दरुपदेशेऽपि गुणत्रयविशिष्टभा- णोपासनं न विरुध्यते ततश्च प्रधानानामबाधे प्रणेपासकानामृषीणामुपदेशो न त्यागमर्ह। त्यङ्गिरोबहस्पत्यादिशब्देभ्योऽपि प्रथ प्रतिपन्नानषीन्विहाय यौगिकवृत्तिप्रतिपत्तव्यगुणमा- त्रप्रतिपत्त्यनुपपत्तेरित्यर्थः । प्राणोपासकानामृर्षाणामभिधानमैतरेयकश्रुत्या द्रढयति-श्रुत्य- न्तरवदिति । तदेव स्पष्टयति --तस्मादिति । शतचिनो नाम प्रथममण्डलदृश ऋषयः । एष च प्राणो यस्मात्पुरुषं संघाताख्यं शतवर्षाण्यभिगतवांस्तस्मादेतमेव प्राणं सन्तमषिशरीरस्थितमपि+शतर्चिशब्दवाच्यं वदन्तीति योजना । शतर्चिशब्दवदुभयविषयाणि शब्दान्तराण्यपि सन्तीत्याह-तथेति । आद्यन्ते मण्ले मुक्त्वा मध्यमानां मण्डलानां द्रष्टारो माध्यमा ऋषयस्तेऽपि प्राणस्तस्य स्वात्मनि मध्ये सर्वजगद्विधारकत्वात्। गत्सम. दस्तु द्वितीयमण्डलदर्शी स्वापकाले वागादीनां गिरणात्प्राणो गृत्सो रेतोविसर्गकारणं मदहे. तुत्वादपानो मदः प्राणापानात्मकत्वात्प्राणोऽपि तथोच्यते । ततीयमण्डदर्शी विश्वामित्रः प्राणोऽपि तथा व्यपदिश्यते । तत्य हि विश्वं भोज्यजातं स्थितिहेतुतया स्निग्धमासीत् । वामदेवस्तु चर्थमण्डलद्रष्टा प्राणोऽपि तच्छन्दव च्यस्तस्य वामादिदेवतासंभजनीयत्वात् । पञ्चममण्डलद्रष्टाऽत्रिरित्युच्यते प्राणोऽपि तथैव कथ्यते । तस्य पाप्मनोऽनर्थरूपान्प्रति सर्व- त्रात्तत्वात् । आदिपदेन भरद्वाजादिपदानि गृहीतानि । दृष्टान्तमेवं व्याख्याय दाटी- न्तिकमाह-तथेति । किमित्यङ्गिरःप्रभृतीप्राणं करोति श्रुतिरत आह-अभेदेति । तथा च सप्तमे प्राणस्य सात्म्यिं वक्ष्यते तथाऽत्रापि तस्य तत्तदृषिरूपत्वं विवक्षितमित्याह- प्राणो हेति । अव्यवहितसंबन्धसंभवे फलितं वाक्यार्थं कथयति-तस्मादिति । प्राणस्याङ्गिरस्त्वं व्युत्पादयति--यस्मादिति ॥ १०॥ तेन त ह बृहस्पतिरुद्गीथमुपासांचक एतमु एव बृहस्पति मन्यन्ते वाग्घि बृहती तस्या एष पतिः ॥११॥ तेन त हाऽऽयास्य उद्गीथमुपासांचक एतमु एवाऽऽयास्यं मन्यन्त आस्यायदयते ॥ १२॥ तथा वाचो बृहत्याः पविस्तेनासो बृहस्पतिः । तथा यद्यस्मादास्यादयते निर्गच्छति तेनाऽऽयास्य ऋपिः माण एव समित्यर्थः। तथाऽन्योऽप्युपासक + 3 सर्वेष्यप्यादर्शपुस्तकेषु शतपिनशब्दवाच्यामति पते तच्चिस्यम् । १ ख. छ. स. कर।