पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयः खण्ड:२] छान्दोग्योपनिषत् । सुरभि च दुर्गन्धि च पाप्मना ह्येष विद्धः ॥ २॥ ते ह देवा नासिक्यं नासिकायां भवं चेतनावन्तं घ्राणं प्राणमुद्गीथकर्तास्.. मुद्गातारमुद्राथभक्त्योपासांचक्रिरे [ उपासनं ] कृतवन्त इत्यर्थः । नासिक्यप्रा. णदृष्टयोद्गीथाख्यमक्षरमोंकारमुपासांचक्रिर इत्यर्थः । एवं हि प्रकृतार्थपरित्यागोऽ. प्रकृतार्थोपादानं च न कृतं स्यात् । खल्वेतस्यैवाक्षरस्येत्योंकारो युपास्यतया प्रकृतः । ननूद्गीथोपलक्षितं कर्माऽऽहृतवन्त इत्यवोच इदानीमेक कथं नासिक्य प्राणदृष्टयोंकारमुपासांचक्रिर इत्यात्थ । नैप दोषः । उद्गीथकर्मण्येव हि तत्कत प्राणदेवताहष्टयोद्वीथभक्त्यवयवोंकार उपास्यत्वेन विवक्षितो न स्वतन्त्रो- तस्तादर्थेन कर्माऽऽहृतवन्त इति युक्तमेवोक्तम् । तमेवं देवव्रतमुद्गातारं हासुराः स्वाभाविकतमआत्मानो ज्योतीरूपं नासिक्यं प्राणं देवं स्वोत्थेन पाप्मनाऽधर्मा सङ्गरूपेण विविधुर्विद्भवन्तः संसर्ग कृतवन्त इत्यर्थः । स हि नासिक्यः प्राम: कल्याणगन्धग्रहणाभिमानासङ्गाभिभूतविवेकविज्ञानो बभूव । स तेन दोषेण पाप्मसंसर्गी बभूव । तदिमुक्तमसुराः पाप्मना विविधुरिति । यस्मादासुरेण पा. मना विद्धस्तस्मात्तेन पाप्मना प्रेरितो घाणः प्राणो दुर्गन्धिग्राहकः प्राणिनाम् । अतस्तेनोभयं जिघ्रति लोकः सुरभि च दुर्गन्धि च । पाप्मना वेष यस्माद्विद्धः। उभय ग्रहणमविवक्षितम् । यस्योभयं हविरार्तिमाछतीति यद्वत् । यदेवेदमप्रति- रूपं जिघ्रतीति समानप्रकरणश्रुते।। संप्रत्युद्गीथाहरणप्रकारं प्रकटयति-यदा चेति । अचेतनस्य करणस्योद्गातृत्वासंभवा- द्विशिनष्टि-चेतनावन्तमिति ।मुख्यं प्राणं व्यावर्तयति-घ्राणमिति । त्वं न उद्गा- येतिवाजसनेयकश्रुतिमाश्रित्याऽऽह---उद्गीथकर्तारमिति । अथोद्गीथभक्तिरेव श्रूयते न तूद्गाता तत्कथं तदुपासनमित्याशङ्कयाऽऽह---उद्गीथभक्त्येतिः । तयोपलक्षितमुद्गातार- मुपासत इति यावत् । कथमुपासनमित्यपेक्षायामुद्गीथेन कर्तृत्वप्रार्थनयेत्याह-कृतवन्त इति । ते ह. नासिक्यमित्यक्षरोक्तमर्थमुक्त्वा वाक्यार्थमाह-नासिक्येति । किमित्य- क्षरमोंकराख्यमिहोपास्यत्वेन व्याख्यायते तत्राऽऽह--एवं हीति । उक्तमेव स्फुटयति- खल्विति । तथा च प्राणस्योद्गातदृष्टयोपासने प्रकृतस्य परित्यागो भक्तेश्च घ्राणप्राणदृष्टयो- पास्वत्वाङ्गीकारेऽप्रकृतोपीदानमिति शेपः । पूर्वापरविरोधमाशङ्कते--नन्विति । उद्गी- ५. ग. ङ. च. तं प्रा । २ ख. घ, ङ, च, सिक्यमा । ३ ख. धुर्वेदितव । ४.ख. के. घाणमा । ५. छ. 'यशब्दन । ६ . तृप्रा । ७ क. ग. °श्च प्रा । ८ ख. . पासन: