पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्दगिरिकृत्टीकासंवलितशांकरभाष्यसमेता-१ प्रथमाध्याये- रक्तं तयोश्च कर्मसामदेिव फलं स्यादिति ताऽऽह--दृष्टं हीति । यत्त्वङ्गज्ञानत्वादिति तत्किमङ्गत्वे सति ज्ञानत्वं किं वाऽऽश्रिय विहितत्वमथवैतदेव ज्ञानत्वविशेषितम् । माऽऽद्यः । तन्निर्धारणनियमन्यायेनास्देिः । न द्वितीयो गोदोहने व्यभिच र.त् । न ततीयो दृष्टान्तस्य साधनविकलत्वादाज्यावेक्षणस्याऽऽश्रित्य विध्युदाहरणबहि तत्वादङ्गसं. बन्धज्ञानत्वमात्रेण दृष्टान्तत्वे सत्यङ्गत्वोपाधेः संभवादित्यभिप्रेत्य ज्ञानाधिक्ये फलाधिक्य- मित्यत्रानन्तरवाक्यं योजयति--तस्मादिति । विज्ञानमुद्गीथाद्यङ्गमात्रविषयमुपासनाति. रिक्तं तेनेति यावत् । योगो देवतादिविषयमुपासनम् । इतिशब्दस्तदर्थसमाप्यर्थः । तत्रै पार्थसिद्धमर्थ कथयति-विद्वदिति । नन्वर्थी समर्थो विद्वानपर्युदस्तश्च कर्मण्यधिकारीत्य. जीकारादविदुषस्तलक्षणानाक्रान्तस्यानधिकारात्क र कर्म वीविदिति प्रतिज्ञायते तत्राऽऽह- न चेति । औषस्य उपस्तिसंबन्धे मटचीहतेष्वित्यादिके तस्मिन्ग्रन्थजाते विद्याहीनाना- मपि कर्मानुष्ठानं दृश्यते प्रस्तोतर्या देवतेत्यादौ तां चेदविद्वानित्यादिलिङ्गात् । तस्माद. विदुषोऽपि कर्मयधिकारः । अधिकारिलक्षणे तु ज्ञानाभावेऽपि द्रव्यादिज्ञानमात्रेण विशे- पणसिद्धिरित्यर्थः । गणवदक्षरज्ञानं स्वतन्त्रमित्युक्तम् । तत्तु रसतमगुणवदक्षरविषयमेक- मुपासनम् । तत्र च विध्युद्देशे फलस्याश्रुतत्वेऽपि विश्वजिन्न्यायेन वा तत्कल्प्यते । आप्ति- गुणवतः समद्धिगुणवतश्चाक्षरस्य द्वे विज्ञाने प्रत्येकं फलश्रुतेः । तथा चात्र त्रीण्युपासनानि गृथक्फलानि विवक्षितानीत्यत आह-रसतमेति । न तावदिहोपासीतेतिविधिव्यतिरेकेण मधे विध्यन्तरमपलभ्यते । न चाऽऽपयिता ह वै कामानामित्यादिवाक्ये फलश्रुत्या विधि- रुन्नेयः । रसतमगुणवदक्षरविज्ञानविधौ फल काक्षिण्यर्थवादस्थफलांशान्वयेनानेकगुणवदेक. विज्ञानविधिसंभवे विविभेदकल्पनायोगानो खल्वार्थवादिकफलबदनेकविशेषणकैकोपासनवि. षयविध्यभ्युपगमेन वाक्यैक्यसंभवे याक्यं भेत्तमुचितम् । एतेन विश्वजिन्न्यायो निरस्तः । रात्रिसत्रन्यायस्तु प्रकृताविरोधीति भावः । तस्योपव्याख्यानमित्युक्तस्योपसंहारबाक्यं खल्वे- तरयेत्यादि, तत्रैतच्छब्देन प्रकृताकर्षणे कारणमाह-~अनेकरिति । रसतमाप्तिसमद्धि- रूपाण्यनेकानि विशेषणानि विशिष्टत्वेनाक्षरस्यानेकप्रकारेणोपास्यत्वात् । प्रकारभेदेऽप्युन पास क्यस्य प्रागेवोक्तत्वाप्रकृतस्यैवाक्षरस्यैतदुपव्याख्यानं यत्खलु विहितमित्यर्थः ॥ १० ॥ इति प्रथमाध्यायस्य प्रथमः खण्डः ॥ १ ॥ (अथ प्रथम,ध्यायस्य द्वितीयः खण्डः ।) देवासुरा ह वै यत्र संयंतिर उभये प्राजापत्यास्तद्ध १ ख. छ. त्र. "तावि' । २ ख. छ. ज. यं कर्म । ३ ख. ग. छ. त्र. ट. °दित' । ४ क. ग. कारल° ५ ख. छ. अ. मामु । ६ क. गान ख°। ७ स्व. ञ, वे में।