पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमः खण्डः १] - छान्दोग्योपनिषत् । १३ मेति । वाक्प्राणयोक्सामकारणत्वमुत्तरवाक्येन (ण) स्पष्टयति--ऋक्चेति । यथा वाक्प्राणौ मिथुनमेवमुक्सामे च स्वातन्त्र्येण मिथुनं निर्देशसामान्यादित्याशङ्कयाऽऽह- न त्विति । विपक्षे दोषमाह-अन्यथेति । इष्टमेव मिथुनद्वयमिति चेन्नेत्याह-तथा चेति । ननु मिथुनयोरनुगतं मिथुनत्वमादायैकवचनमुपपत्स्यते चेनेत्याह-तस्मादिति । उपक्रमभङ्गान्न स्वतन्त्रमिथुनद्वयमस्तीत्यर्थः ॥ ५ ॥ तदेतन्मिथुनमोमित्येतस्मिन्नक्षरे सश्मृज्यते यदा वै मिथुनौ समागच्छत आपयतो वै ताबन्योन्यस्य कामम् ॥६॥ तदेतदेवलक्षणं मिथुनमोमित्येतस्मिन्नक्षरे संसृज्यते । एवं सर्वकामावाप्तिगु- णविशिष्टं मिथुनमोकारे संसृष्टं विद्यत इत्योंकारस्य सर्वकामावाप्तिगुणवत्त्वं प्रसिद्धम् । वाङ्मयत्वमोंकारस्य प्राणनिष्पाद्यत्वं च मिथुनेन संसृष्टत्वं मिथुनस्य कामापयितृत्वं प्रसिद्धमिति दृष्टान्त उच्यते । यथा लोके मिथुनौ मिथुनावयवा स्त्रीपुंसौ यदा समागच्छतो ग्राम्यधर्मतया संयुज्येयातां तदाऽऽपयतः प्रापयतोऽ- न्योन्यस्येतरेतरस्य तौ कामम् । तथा च स्वात्मानुप्रविष्टेन मिथुनेन सर्वकामा- प्तिगुणवत्त्वमोंकारस्य सिद्धमित्यभिप्रायः ॥ ६॥ भवतु वाक्माणाख्यमृक्सामात्मकवाक्प्राणरूपम् । ओंकारमिथुनयोः संसर्गे किं फलती. त्याह-एवमिति । कया पुनर्विधया मिथुनेन संसृष्टत्वमक्षरस्य सेत्स्यतीत्यत्राऽऽह- वाङ्मयत्वमिति । यत्तु सर्वकामाप्तिगुणविशिष्टं मिथुनमित्युक्तं तदुपपादयति-मिथुनस्येति । प्रसिद्धमिति । तागर्थो यथोक्ताक्षरस्य सर्वकामापयितृत्वे दृष्टान्तः सन्नुच्यतेऽनन्तरवा- क्येने(णे)त्यर्थः । दृष्टान्तमेव विवृणोति-यथेत्यादिना । मिथुनद्वयं नास्तीत्युक्तत्वात्कथं मिथुनाविति द्विवचनं तत्राऽऽह-मिथुनावयवाविति । ग्राम्यधर्मतया तथाविधव्यापारत- येति यावत् । वैशब्दोऽत्रधारणे । विवक्षितं दार्टान्तिकमाचष्टे-तथेति ॥ ६ ॥ तदुपासकोऽप्युद्गाता तद्धर्मा भवतीत्याह- आपयिता ह वै कामानां भवति य एतदेवं विद्वा- नक्षरमुद्गीथमुपास्ते ॥ ७ ॥ क. ग. घ. ङ. 'माप्ति २ ख. इ. माप्ति । ३ ख. थ. ङ. सि । ४ घ. ङ. ष्टत्वमेव मि° । ५ ख. घ. ङ. °था स्था' । ६ क. ग. स्यति तबाऽऽ' । ७ ख. ग. ङ, तीति । आ ।