पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्दगिरिकृतीकासंवरितशांकरभाष्यसमेता-[१ प्रथमाध्याये- आपयिता ह वै कामानां यजमानस्य भवति य एतदक्षरमेवमाप्तिगुणवदुवी- थमुपास्ते तस्यैतद्यथोक्तं फलमित्यर्थः । " तं यथा यथोपासते तदेव भवति " इति श्रुतेः ॥ ७॥ एवमोंकारमाप्तिगुणविशिष्टं शिष्ट्वा तदुपासनाफलं कथयति-तदुपासकोऽपीति । सद्धर्मेत्युपासकस्याऽऽतिगुणवैशिष्टयोक्तिः । आप्तेति वक्तव्ये कथमापथितेत्युक्तं तत्राऽऽह- यजमानस्येति । निपातौ ववधारणार्थों । उद्गीथं तदवयवभूतमिति यावत् । आप्तिगुणव- दोकारोपासनात्कथमुपासिता तद्गुणो भवतीत्याशङ्कयाऽऽह-तमिति ।। ७ ॥ तद्वा एतदनुज्ञाक्षरं यद्धि किंचानुजानात्योमित्येव तदाहै षो एव समृद्धिर्यदनुज्ञा समर्धयिता ह वैकामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्ते ॥ ८ ॥ समृद्धिगुणवाओंकारः । कथम् -तद्वा एतत्यकृतमनुज्ञाक्षरमनुज्ञा च साऽक्षरं । च तत् । अनुज्ञाऽनुमतिरोंकार इत्यर्थः । कथमनुज्ञेत्याह श्रुतिरेव । यदि किंच यत्किच लोके ज्ञानं धर्म वाऽनुजानाति विद्वान्धनी वा तत्रानुमतिं कुर्वन्नोमि- स्येव तदाह । तथा च वेदे “ त्रयस्त्रिंशदित्योमिति होवाच " इत्यादि । तथा च लोकेऽपि तवेदं धनं गृह्णामीत्युक्त ओमित्याह । अत एपा उ एवैपैव समृ. द्धिर्यदनुज्ञा याऽनुज्ञा सा समृद्धिस्तन्मूलत्वादनुज्ञायाः । समृद्धो होमित्यनुज्ञां ददाति तस्मात्समृद्धिगुणवानोंकार इत्यर्थः । समृद्धिगुणोपासकत्वात्तद्धर्मा सन्समर्धयि- ता ह वै कामानां यजमानस्य भवति य एतदेवं विद्वानक्षर मुद्गीथमुपास्त इत्यादि पूर्ववत् ॥ ८॥ - उत्तरग्रन्थस्य गुणान्तरविधाने तात्पर्य दर्शयति-समृद्धीति । तस्य समृद्धिगुणवत्त्वम. प्रामाणिकमित्याशङ्कय परिहरति-स्वयमित्यादिना । तदेतत्पदयोरोंकाराख्यमक्षरं विषय- खेन निर्दिशति-प्रकृतमिति । तस्य स्मृत्यर्थो वैशब्दः । अनुज्ञाक्षरमित्येतद्विगृह्य विवक्षितेनार्थेन घटयति-अनज्ञा चेति । तस्यानुज्ञात्वे प्रश्नपूर्वकं प्रसिद्धिमुपन्यस्यति-- कथमिति । तत्रेति ज्ञानधनयोरुक्तिस्तदित्यनुमन्तव्यं साधारण्येनोच्यते । ओंकारस्यानुज्ञा. क्षरखे लोकप्रसिद्धिवद्वेदप्रसिद्धिं समुच्चिनोति--तथा चेति । कत्येव देवा याज्ञ- वल्क्येति शाकल्येन पृष्टे त्रयस्त्रिंशदिति याज्ञवल्क्येन प्रत्युक्ते सत्योमिति ख. आ. देदे म