पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[ १ प्रथमाध्याये- च मिथुनम् । अन्यथा हि वाक्च प्राणश्चेत्येकं मिथुनमुक्साम चापरं मिथुनमिति दे मिथने स्याताम् । तथा च तदेतन्मिथुनमित्येकवचननिर्देशोऽनुपपन्नः स्यात् । तस्माक्सामयोन्योक्प्रिाणयोरेव मिथुनत्वम् ॥ ५॥ किमिति यथोक्तरीत्या विमृश्यते । विवक्षितमृमादिस्वरूपमेवाऽऽदाबुपन्यस्यतां लायवा- दित्याशङ्कयाऽऽह-विमर्श हीति । शिष्यभूतया श्रुत्या चोदिते सैवाऽऽचार्यभूत: परिहरति-वागेवेति । नन्वाद्ये प्रतिवचने वागृचोरेकत्वावगमादोंकारस्य रसतम- वाक्योपदिष्टमष्टमत्वं व्याहन्येतेत्याशङ्कयाऽऽह-वागचोरिति । कथं घुना रसतम- वाक्यादिदं प्रश्नप्रतिवचनरुपवाक्यं भिद्यतेऽर्थाधिक्याभावात्तत्राऽऽह-आप्तीति । पूर्व हि वाक्यमोंकारस्य रसतमत्वं विदधाति । इदं तु तस्यैवाऽऽप्तिगुणं विधत्ते । तथा च तादृग्गुणविध्यर्थत्वेनास्य वाक्यान्तरत्वादेतद्वाक्यवशादष्टमत्वाभावेऽपि पूर्ववाक्यादोंकार. स्याष्टमत्वमविरुद्धमित्यर्थः । तथाऽपि कथमृगादिजातीये पृष्टे वागेवर्गित्यादिप्रति- वचनमचितं तद्वयक्तिविशेषवचनमेव प्रश्नानुसारीत्याशयाऽऽह--वाक्प्राणाविति । वागचो योनिस्तनिर्तिकत्वात् । प्राणश्च सानो हेतुर्बलेन हि गीतिरुत्पाद्यते । ताँ च वागवेत्यादिना कार्यकारणयोरभेदोपदेशादृङमात्र साममात्रं वा तत्तत्कारणात्मकं प्रतीयते तेन पूर्वत्रापि व्यक्तिराविवक्षिता । प्रश्नप्रतिवचनयोरेकार्थत्वात् । न चैवमगादिजातेरेकरवाडुतम- प्रत्ययानुपपत्तिस्तत्तज्जात्यवच्छिन्नानामृक्सामोद्गीथानां संनिधागादिजातरेकस्या निर्धार- णार्थं परिप्रश्ने तत्प्रयोगसंभवागादिषु प्रत्येकं भेदविवक्षया षष्टीसमासे दूषणमुक्तम् । तत्र प्रत्येकमेकत्वमुपेत्योक्तरीत्या षष्ठीसमासे तु न किंचिहुष्यतीति भावः । ऋगात्मिकाया वाचः सामात्मकस्य प्राणस्य ग्रहणे फलितं दर्शयन्नुक्तमेव व्यक्ती करोति-यथाक्रम- मिति । ऋक्साममात्रावरोधेऽपि सिध्यतीत्याशङ्कयाऽऽह-सर्वेति । तथाऽपि किं स्यादिति चेत्तदाह-सर्वे कामा इति । उक्तप्रक्रियया सर्वकामावाप्तिहेतुरोकारो विव. क्षिताप्तिगुणकः सिध्यतीत्यर्थः । तृतीये प्रतिवचने तात्पर्यमाह-ओमित्येतदिति [अत्रापि पूर्ववजातिगृहीतौ तद्वयक्तित्वेन भक्तिरेवोक्तेति शङ्कां निरसितुमोमित्येतदक्षरमिति विशेषणम् । तथा चौद्गीथस्तदवयवो विशेषणात्प्रकरणाचेत्यर्थः । पारम्पर्यण वाक्प्राणयोः सर्वकामसंबन्धा- दुद्गीथस्यापि तथाभूतवामादिसंबन्धादस्ति सर्वकामसंबन्ध इत्युक्तम् । इदानीर्मोकारस्य वाक्प्रा- णद्वारा सर्वकामसंबन्धे हेत्वन्तरमाह-तद्वा इति । तदेतत्पदयोरक्षरविषयावं व्यावर्त्य वक्ष्य- माणविषयत्वं दर्शयति-मिथुन मिति । वैशब्दो मिथुनप्रसिद्धयर्थः । वाक्च प्राण- मेति यदुभयमुपलभ्यते तैदेतन्मिथुनमिति योजनामङ्गीकृत्य वाक्यार्थमाह-ऋक्सा. १स.क. ड. णश्वकं । २ ख. छ, ञ, दिरू । ३ क. रूपं वा । ४ ख. छ. . "भा वा १ ख. छ. . बाकाण' । ६ दु. ग. छ, ज. तमि