पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० आनन्दागरिकृतटीकासंवलितशांकरभाष्यसमेता-[ १ प्रथमाध्याये- समर्थयते-परमात्मवदिति । यथा परमात्मा स्वरूपत्वेनानुसंधीयते तथाऽस्यापि तदारम- नाऽनुसंधेयत्वाविष्णुबुद्धयालम्बनाप्रतिमावदयमपि परमात्मबुद्धयालम्बनयोग्यो भवतीत्यर्थः । ॐकारात्पराची नो रसों नास्तीति तदीयरसतमत्वस्फुटीकर गार्थ परिगणनातः सिद्धमष्ट. मत्वमनुवदति-अष्टम इति । ननु भूतान्यारभ्य नवमत्वे प्रतीयमाने कथमोंकारस्या- ष्टम, प्रतिज्ञायते तत्राऽऽह-पृथिव्यादीति । स एष इत्युक्तं व्यक्ती कर्तुं यदुद्दीध इत्येतद्व्याचष्टे-ये इति । पूर्ववदुद्गीथशब्दोऽवयवपरो नेतव्यः ॥ ३ ॥ कतमा कतमर्कतमत्कतमत्साम कतमः कतम । उद्गीथ इति विमृष्टं भवति ॥४॥ वाच ऋग्रस इत्युक्तम । कतमा सर्कतमत्तत्साम कतमो वा स उन्नीथः । कतमा कतमति वीप्साऽऽदरार्था । ननु " चा बहूनां जातिपरिप्रश्ने डतमच्"। न ह्यत्र ऋग्जातिवहुत्वं कथं डतमैच्योगः । नैष दोषः । जातो परिमश्नो जातिपरिप्रश्न इत्येतस्मिान्विग्रहे जातावृग्व्यक्तीना बहुत्वोपंपत्तेः । न तु जातेः परिप्रश्ना इति विगृह्यते । ननु जातेः परिप्रश्न इत्यस्मिन्विग्रहे कतमः कट इत्या. शुदाहरणमुपपन्नं जातौ परिप्रश्न इत्यत्र तु न युज्यते । तत्रापि कठादिजाता. वेव व्यक्तिबहुत्वाभिप्रायेण परिप्रश्न इत्यदोषः । यदि जातेः परिप्रश्नः स्यात्क- तमा कतर्गित्यादाबुपसंख्यानं कर्तव्यं स्याद्विमृष्टं भवति विमर्शः कृतो भवति ॥3॥ - अथ गुणान्तरविधानाथं प्रश्नमवतारयन्वृत्तम वदति--वाच इति । ऋचः साम रसः साम्न उद्गीथो रस इति चोक्तमिति द्रष्टव्यम् । इदानीमृगादिजाति जिज्ञासमानः पृच्छति- कतमेति । वीप्सात्रयं प्रश्ने तत्तज्जातिज्ञाने श्रद्धातिरेकं दर्शयितुमित्याह-कतमा कतमेति । प्रश्नत्रयमाक्षिपति--नन्विति । अनेकजाल्यवच्छिन्नानां मध्ये यदैकस्या जातेर्निर्धारणार्थ: परिप्रश्नो भवति तदा तस्मिन्विषये विकल्पेन डतमच्प्रत्ययः स्याद्यथा' बहूनां कठादीनां मध्ये कठजातिनिर्णयार्थ कतमे कठा इति प्रश्नो दृश्यते तथाऽन्यत्रापति सूत्रार्थः । बहूनामेकस्या निर्धारणे डतमविधानेऽपि प्रकृते प्रश्नत्रये काऽनुपपत्तिरित्याशङ्कयाऽऽह- न हीति । अत्रेत्यध्यापकाध्येतव्यव- हारभूमिरुक्ता । जातिग्रहणं सामजातेन्द्रीथजातेश्वोपलक्षणम् । तद्वहुत्वाभावेऽपि ५ अ. "मत्वं स्फु । २ ५. छ. यदुन्नी । ३ क. ग. मच्यत्ययः । । च. च्यत्ययपयोगः । नै° 1.४ ख. व. छ. 'त्येवं विन' । ५ . ङ. च. पत्तिर्न तु । ६ ख. घ. इत्येतस्मि । ७ ख. घ ङ मम् । तया । ८ च. "ति ॥ ४॥ शिमशें। ख. ग. .छ. अ. नद्रवति । १० क. ग. ननु वेति । ११ ग, यार्थः क ! १२ ख. छ. अ. ऋात्व- जाति