पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमः खण्डः १] . छान्दोग्योपनिषत् । प्राथम्यप्रसिद्धेः साकारवस्तुविषयत्वेन मुसाध्यत्वाच्च मन्दानां सहसा तेषु प्रवृत्युपश्चे-. रादावुपदेशः संभवतीत्यर्थः । तथाऽपि बहुविधेषपासनेषु किमित्यगावबद्धमेवोपासनं प्रथ- ममुच्यते तत्राऽऽह-तत्रेति । प्राकृते पुरुषे कर्माभ्यासस्थानादिवासनया ४ाकृतत्वादम्य. स्ततत्ताकर्मत्यागेऽतत्संबन्धिनि केवलोपःसने चेतसः समर्पणं दुःखं कर्तुमित्यङ्गावबद्धभेव ताबदुपासनमुच्यते । एवमादायुक्त्वा पुनरुपासनान्तराणि क्रमेण अक्तव्यानीत्यर्थः । (अथोपनिषत् ।) ओमित्येतदक्षरमुद्गीथमुपासीत । ओमिति घुन्द्रायति तस्योपव्याख्यानम् ॥ १ ॥ । ओमित्येतदक्षरमुद्गीथमुपासीत । ओमित्येतदक्षरं परमात्मनोऽभिधानं नैदि- ष्ठम् । तस्मिन्हि प्रयुज्यमाने स प्रसीदति प्रिय नाम ग्रहण इव लोकः । तदिहति. परं प्रयुक्तमभिधायकत्वाव्यावर्तितं शब्दस्वरूपमात्रं प्रतीयते । तथा चार्चादि. वत्परस्याऽऽत्मनः प्रतीकं संपद्यते । एवं नामत्वेन प्रतीकत्वेन च परमात्मोपा- सनसाधनं श्रेष्ठमिति सर्ववेदान्तेष्ववगतम । जपकर्मस्वाध्यायाद्यन्तेषु च बहुशः प्रयोगात्प्रसिद्धमस्य श्रेष्ठयम् । अतस्तदेतदक्षरं वर्णात्मक मुद्गीथभक्त्यवयव- स्वादुद्गीयशब्द वाच्यमुपासीत । कर्मागावयव भूत ॐकारे परमात्मप्रतीके दृढामै- काग्य लक्षणां मति संतनुयात् । स्वयमेव श्रुतिरोंकारस्योद्गीथशब्दवाच्यत्वे हेतुमाह-ओमिति ह्यदायति । ओमित्यारभ्य हि यस्मादुद्गायत्यत उद्गीथ ओंकार इत्यर्थः । तस्योपव्याख्यानं तरयाक्षरस्योपच्यारूपानमेवमुपासनमेवं-- विभूत्येवंफल मित्यादिकथनमुपव्याख्यानम् । प्रवर्तत इति वाक्यशेषः ॥ १॥ __ काण्डद्वयस्य नियतपौर्वापर्यप्रयुक्तसंबन्धमुपनिषत्तात्पर्य चोक्त्या प्रत्यक्षरं व्याख्यातुकामः । प्रतीकमादत्ते-ओमित्येतदक्षरमिति । तत्र प्रथमों कारस्याभिधायकत्वपक्षमेवावलम्बते-" परमात्मन इति । अभिधानान्तरेभ्यो विशेष दर्शयति-नेदिष्ठमिति । निकटतममति- शयेन प्रियमिति यावत् । ॐकारस्य नेदिष्टत्वं समर्थयते-तस्मिन्निाते । ॐकारस्यान्यत्र परमात्मनामात्रेऽपि प्रकृते किं विवक्षितमित्याशङ्कयाऽऽह-तदिहेति । प्रकृते हि वाक्ये तदो- मिति पदामितिशब्दशिरस्कं प्रयुक्तमितिशब्दसामर्यादेव वाचकत्वाद्यावर्तितं शब्दावरूपमा- प्रमुपास्य गम्यते । यत्र हीतिपरः प्रयोगो न तत्राभिधेयविवक्षाऽस्ति यथा गौरित्ययमाहेति । तथा चात्रेतिपरत्वादोंकारस्य स्वरूपमात्रमुपास्यं विवक्षितमित्यर्थः । तपास्यत्वार्थ श्रेष्ठयं १ क. ग. नात° । २ ख. छ. उ. प.स । ३ क. ङ, षु ब'।