वैदिकच्छन्दसामुदाहरणानि तु वृत्तिकृता न प्रदर्शितानि । तान्यसाभिरन्विष्या न्विष्य यथास्थानं निवेशितानि । अत्र वैदिकोदाहरणविषये पूर्व पूर्वेषां संशोधनम्। तनसंशोधकैः प्राय गजनिमीलिंकैव स्वीकृता । तथा च षट्प दाजगत्युदाहरणम्-( ३. ४९ ) ‘आपो न देवीरुपं यन्ति (१) होत्रियमवः पश्यन्ति (२) वेितं यथारजः (३) प्राचैर्देवासः प्र णयन्ति (४) देवयुं ब्रह्मप्रियं (५) जोषयन्ते वरा इव (६) ॥ (ऋ. १. ६. ४ ) इति दत्तं दृश्यते । वस्तुत इयं चतुष्पदाजगात्येवास्थाने पादकल्पनां विधाय षट् पदत्वं प्रापिता । तत्रापि द्वितीयं षष्ठं चापहाय नाष्टाक्षरत्वं कस्यापि पादस्य सम्भव तीति भक्षितेऽपि लशुने न शान्तो व्याधिः । पुरस्ताज्ज्योतिरुदाहरणम्-( ३. ५२) ‘अबोध्यन्निज्मै उदेति सूर्यो व्यु:१षा (१) श्चन्द्रा मह्या वो अर्चिपा (२) आर्युक्षातामश्विना या (३) तवे रथं प्रासावीद्देवः (४) संविता जगत्पृथकू ॥ (ऋ६. २. २. २७ ) इयमपि चतुष्पदैव सती पञ्चपदतां नीता । इदं चात्रात्यन्तमाश्चर्यकरं यत् यातवे' इति पदमध्येऽपि पादः कल्पितः । ककुद्मत्युदाहरणम्-( ३. ५६) ‘उतासो दैववदिति (१) रुष्यतां नाम उग्रः (२) । उरुस्यन्तभवती (३ ) वृद्धश्रवसः (४) ॥' अत्र प्रदर्शितः पादः पञ्चाक्षरो भवति, न पुनः षडक्षर इति शाङ्कमत्या इदमुदाहरणं भवितुमर्हति, न कंकुद्मात्याः । अशुद्धविषये चात्र शुद्धपाठप्र दर्शनमेव पर्याप्त मन्यामहे तत्त्वविदां चेतश्चमत्काराय ‘उत नों देव्यदितिरुरुष्यतां नार्सत्या । उरुष्यन्तुं मरुतो वृद्धशवसः ॥'(ऋ.६.२.२२) इदमपरमालोक्यतां भूरिग्जगत्या उदाहरणम्-(३. ५९) इयो न विद्वां अयुजिरियं धुरि (५) तं वहानि प्रतरणिमवश्रुवम् (२) । नास्य वेश्मि विसुचनावृतं पुनः (३) विद्वान्पयः पूर एत अजुनेषति (४) ॥ कियतीं वाशुद्धीनां काष्ठामारोपितेयमृगिति शुद्धपाठावलोकनेन स्वयमेव विभावयन्तु दोषज्ञाः । शुद्धपाठश्चत्थम् हयो न विद्वै अर्युजि स्वयं धुरेि तां वहामि प्रतरंणीमवस्युर्वम् । नास्यां वश्मि विमुचं नावृतं पुनर्विद्वान् पथः पुंर पूत जुनेषति ॥(ऋ.४.२.२८) स्थालीपुलाकन्यायेनाशुद्धीनां स्वरूपं जानीयुस्तज्ज्ञा इति दिङात्रमेवेदं प्रादर्शि। प्राय सर्वाण्यप्युदाहरणान्येवमेवाशुद्धतराणि लक्षणविसंवादीनि चासन् । अस्माभिस्तु तान्यपसार्य लक्षणानुगतानि निवेशितानि । मूलं च सूक्ष्मेक्षिकया अस्मदीयः प्रयत्नः निरीक्ष्य संशोधितम् । ऋचिद्ववाख्यया दुर्वोधतापि दूरीकृता । मतान्तराणि च युक्तायुक्तविवेचनपूर्वकं निरूपितानि । शौनक कात्यायनाभ्यामुक्तानेि सूक्ष्मभेदानां लक्षणानेि सङ्कहीतानि, तेषामुदाहरणानि च
पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/८९
दिखावट