पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मपि । मुञ्जश्ध ८९३-९१९ शकाब्दं यावन्मालवानलमकार्षीदिति स एव समयो मृतसsीवन्याः प्रणयनस्येति निर्धारयामः । यदाधारेणैवं निर्णयते, तान्युदाहरणपद्यान्यन्यदीयानीति शङ्कयम्, सर्वलधुच्छन्दसेि गीत्यार्याशब्दस्य प्रवेशयितुमशक्यत्वात्तन्नाम नोक्तम्’ (४. ४८) ‘उपस्थितप्रचुपितादीनामस्मिञ्जावेशयितुं न शक्यन्ते संज्ञा इति नोक्तिः' (५. ३०) इति वृत्तिदर्शनेन वृत्तनामगर्भितानां श्रोकानां हलायुधेनैव निर्मितत्वस्य स्फुटमवग म्यमानत्वात् । न हेि परकीयश्लोकानामेवमुपपादनं सम्भवतीति । हलायुधस्य देशविषये तु न विशेषतः किमपि गमकमुपलभामहे । केवलं ‘इह हि भवति दण्डकारण्यदेशे स्थितिः’ ‘पद्माम्बिकातीर्थयात्रागतानेकसिद्धाकुले' (७ ३३) इति श्लोकं पश्यन्तो दाक्षिणात्यमेवैनं सम्भावयामः । हलायुधस्य अत्रोपश्लोकितां पङ्काम्बिकां चास्य कुलदेवतामुव्प्रेक्षामहे । देशादिकम् । पिता चास्य मीमांसापारावारपारदृश्वा नान्ना च नूनं विश्वरूपः। तथा होनमुपवर्णयति मायम्-‘श्रुतिपरिपूतवक्त्रमतिसुन्दरवाग्विभवं तमखिल जैमिनीयमतसागरपारगतम् । अवितथवृत्तविप्रजनपूजितपादयुगं पितरमहं नमामेि बहुरूपमुद्दारमतिम् ॥' (८. १४ ) इति । अत एव हलायुधस्यापि मीमांसायां बहुमानः । तथा चोक्तम्--'मीसांसारसममृतं पीत्वा शास्रोक्तिः कटुरेितर भान् ि। शुवं संसद् िविदुषां मध्ये जल्पामो जयपणवं हत्वा ।' ( ६. १०) इति । अस्य तु मुख्यं शास्त्र व्याकरणमिति कविरहस्याज्ज्ञायते । अत्रापि ( १. १० ॥ ४ १४ ) इत्यादिवृत्तिविलोकनेनास्य वैयाकरणत्वं स्फुटीभवति । अत्र वृत्तौ माण्डव्यः (पृ. ५० ) धेतपटः (पृ. ७३) कालिदासः (पृ. ७८) भारविः (पृ. ८०) धरणीधरः (पृ. ८५ ) कात्यायनः'( पृ. १०४ ) इति ग्रन्थ कृतां नामान्युपलभ्यन्ते । तत्र धरणीधरोऽस्य समकालिकः कश्चिदनुबन्धी सुहृद्धा अभिधानरलमालाख्यः कोशोऽप्यनेनैव निर्मित इत्याहुः । लक्ष्मणसेनस्य मन्त्री ब्राह्मणसर्वस्व-शिवसर्वस्वादिग्रन्थकर्ता, वृत्तरताकरटीका कर्तृ रामचन्द्रकवेभ्रता चेत्याद्यो हलायुधा अस्माद्भिन्ना एव । अस्य शास्त्रस्य महामहिमशालिभिः शालिवाहनस्य सप्तदश्याः शताब्द्याः पूर्वार्ध समुद्वतैभर्भास्करराजैः प्रणीतं भाष्यम्, वार्तिकराजश्रेति अन्यानि व्याः - प्रकामं गुणगरिमाभिरामं वेिद्योतते व्याख्यानद्वयम् । तङ्कात्रा ख्यानानि सखारामभद्धेन विरचिता छोटीवृत्तिरपि वरीवति । परं कृतप्रयला अपि तालभिष्महि । अन्यश्च व्याख्यानं न नः कर्ण पदवीमवतीर्णम् । अतः स्वीयया “विशल्यकरणी' नाकृया टिप्पण्या योजितमेतत् ।