सम्प्रति तु अनतिहृदयङ्गमापीयं एलायुधवृत्तिरेवाद्रियते सर्वत्र । शालिवाहनस्य पञ्चदश्यां शताब्दयामुत्पन्न इति केचिद्वर्णयन्ति हलायुधस्य कालः तथा ह्यस्ति हलायुधेनैव प्रणीतं कविरहस्याभिधं किमपि काव्यम् । तत्र च स्वोपजीव्यः कृष्णराज उपवर्णितोऽनेन । स च विजयनगराधीश्वर एव । यतः १ ४३० शकाब्दे तद्दत्तग्रामप्रशस्तै नमस्तुङ्गशिरः इति श्लोक उपलभ्यते । स छन्दःशास्रवृत्तिगत इति । चव तदेतन्न युक्तम्, ‘नमस्तुङ्गशिर' इतिश्लोकस्य प्राचीनत्वेन तदुलेखस्याकिञ्चित्कर स्वात् । तथा च १३१३ शकाब्दे प्रजापतिवत्सरे हरिहररायेण गोवापुरे मत्रिपदे नियुक्तनृहरिप्रदत्तदानपत्रेऽपि दृश्यतेऽसौ श्लोकः । उपलभ्यते च ततः प्राचीनतरेण ब्राणभट्टेन प्रणीते हर्पचरितेऽपि । किञ्च कविरहस्ये समुपवर्णितः कृष्णराजो राष्ट्रकूटकुलोद्भवः । ‘तोलयत्यतुलं शक्त्या यो भारं भुवनेश्वर । कम्तं तुलयति स्थाम्रा राष्ट्रकूटकुलोद्भवम् ॥’ इति हि तत्रोपवण्र्यते । न च विजयनगराधीश्वरः कृष्णराजो राष्ट्रकूटकुलोद्भवः इति प्रसिद्धः राष्ट्रकूटेषु तु त्रयः कृष्णाः प्रसिद्धाः-प्रथमः शुभतुङ्गापरनामकः, द्वितीयः अका लवर्षाख्यः, तृतीयोऽप्यकालवर्षरसंज्ञकश्चेति । तत्र तृतीय कृष्णराजः एव हलायुधस्योपजीव्य इति निश्चिनुमः । यतस्तदनन्तरम खुञ्जिगदेवश्च धिष्ठितराज्यः खडिगदेवोऽपि कृचित् स्मरणविषयतां नीतोऽ नेन-‘त्वया कृतपरिग्रहे खुडिगवीर ! सिंहासने' (लेि. पा ७. १७) इति, ‘यशःशेषीभूते खुडिगनरनाथे गुणनिधौ' ( लेि. पा. ७. २०) इति च । खुडिगदेवश्च तृतीयस्य कृष्णदेवस्य वैमात्रेयो भ्रातेति दानपत्रलेखाद्वग म्यते । तथाहि-‘ऐन्द्रपदजिगीषयेव स्वर्गमधिरूढे च ज्येष्ठ भ्रातरि श्रीमत्कृष्णरा जदेवे युवराजदेवदुहितरि कन्दकदेव्याममोघवर्षनृपाज्जातः खोट्टिगदेवो नृपतिर भूदुवनविख्यातः’ इति । अयं हेि कृष्णराजानन्तरं ८९३ शकाब्दं यावत् महीप तपदमलचकार । कृष्णराजश्च शालिवाहनस्य *८६७-८८८ वत्सरपयन्त भुव शशासेल्युत्कीर्णलेखादिभिज्ञयते । असावेव कृष्णराजः कविरहस्ये नायकता नीतो हलायुधेन तत्पश्चाच मालंवेशो वाक्पतिराजापराख्यो मुञ्जराज आश्रितोऽनेन । प्रकृता छन्दः शाखटीका च तदाश्रयेणैव . १९। प्रणीता । अत एवास्यां ( ४ मुखः ५. ३४ । ५. ३९ । ७• ५ । ८. १२) इत्यत्र मुञ्जः सबडु मानमुपश्लोक्यते । तस्य वाक्पतिराज. इत्यपरं नामधेयमपि दृश्यते ( ४. १०) । उपलभ्यते च नूनं राष्ट्रकूटेभ्य आछि ‘वछभेचर' विरुद्
पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/८७
दिखावट