पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पिङ्गलाचार्यकृतच्छन्दःशाखात्पूर्वमपेि शाखेऽस्मिन् क्रौष्टुकि-यास्क-ताग्डि सेतव-काश्यप-रातमाण्डव्यप्रभृतीनां शास्त्राण्यासिित पिङ्ग प्राचीनाश्छन्दः- लकृतात्तन्मतनिर्देशादवगम्यते । तत्र क्रौषुकिः-बौधायनीये शास्त्रकाराः । भारद्वाजगोत्रकाण्डे “भृष्टयो भ्रष्टुभिन्द्यः क्रोष्टुकय:’ इति श्रुतानां क्रोष्टुकीनां कश्चित् स्यात् । अयमतीव प्राचीनः, यती यास्केनापि स्मर्यते—‘द्रविणोदा इन्द्र इति क्रौष्टकिः’ (निरु. ८. २) इति । यास्कः-आपस्तम्बेन भृगुषु पठितः-'यास्कबाधूकमौनमैकाः’ इति । अर्य निरुक्ताख्यनिघण्टुभाष्यप्रणेता 'यास्को मामृषिरव्यग्रेो नैकयज्ञेषु गीतवान् ।’ (शां प. ३४३. ७२) इत्यादिना महाभारतेऽपि सर्यमाणः । ताण्डी-‘ऋषिरासीत्कृते तात ! तण्डिरित्येव विश्रुतः ।' (अनु. १६. १) इत्या दिना महाभारते गीयमानमाहात्म्यस्य ऋषेः पुत्रः । ‘ऋषीणामभिगम्यश्च सूत्रकर्ता सुतस्तव । मत्प्रसादाद्विजश्रेष्ठ ! भविष्यति न संशयः ॥' ( अनु. १६. ७०) इति तत्रैव भगवतो महेश्वरस्य वरदानोपवर्णनात् । सैतवविषयेऽधिकं किमपि न ज्ञायते । केवलं लौकिकच्छन्दोलक्षणविधायकशा कर्ताथमासीद्वित्यनुमीयते । काश्यपस्तु-मन्दारमरन्दटीकायां कृष्णशर्मकृतायां माधुर्यरञ्जन्यां प्रमाणी क्रियते ‘तत्र भगवता सूत्रकारेण काश्यपेन...' (पृ. ६) इति । कृष्णशर्मणेो ध्वमतानुयायित्वातू, मध्वाचार्यस्य च १२३९ शाकाब्दे पिङ्गलसंवत्सरे लोकान्त २५याणसैतिह्यविद्धिरवधारितत्वात्, तदूध्र्वभाविना कृष्णशर्मणा प्रमाणत्वेनोपात्तस्य काश्यपसूत्रस्यासादनमिदानीमपि नासम्भदनीयम् । धर्मसूत्रमपि काश्यपप्रणीतमु पलभ्यते । तत्कर्ता छन्दःसूत्रप्रणेता च दशाश्यप एक एवोत भिन्न इत्यवधारयितुं रातमाण्डव्यौ तु सम्भूय ग्रन्थकर्तारावित्यनुमीयते । तत्र प्रवरद्र्पणे भरद्वा जाङ्गिरोमध्ये कश्चित् रातो दृश्यते । माडव्यश्च बौधायनस्त्रे भृगुगणे आश्व लायनसूत्रे तर्पणप्रकरणेऽन्यत्र च बहुषु अन्थेषु श्रुतः । महाभारते च (आदि १०७ ) कश्चिन्माण्डव्य उपवर्णितः । तत्र को वा रातसहचर इत्यनिर्णीतमेव । धर्म शास्रमपि रातमाण्डव्यप्रणीतमस्तीति स्मृतिसारसमुच्चयादिपर्यालोचना प्रती यते । तत्र रातमाणव्य इत्येकत्वेन व्यपदेशो दृश्यते, स च शङ्कलिखितवत्सम्भूय ग्रन्थकर्तृत्वनिमित्तक एव स्यात् । एतदतिरिक्ता अन्येऽपि छन्दःशास्रकाराः पिङ्गलाचार्यात्पूर्वकालिका भवितुम र्हन्ति, यन्मतमसौ ‘एकीयम्’ (५. १५) इति निर्दिशति । परं तद्विषयेऽविदित शेिषा जोषमेवावतिष्ठामः ।