पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ पिङ्गलाचार्यादूध्र्वकालिकत्वेनाध्यवसितान् कांश्चिदार्षान् प्रन्थानालोचयामः । तत्र शौनवकीये प्रातिशाख्येऽन्यैः षोडशादिभिस्त्रिभि पिङ्गलाचार्यादुत्तर- पटलैर्वेदिकच्छन्दसां लक्षणानि निरूपितानि । शौन कालिकाच्छन्दो- कश्ध नितान्तं प्राचीन इति विमर्शकः• । परं वयमेिमं प्रन्थकाराः । पिङ्गलादूध्र्वतनं मन्यामहे । यतः प्रातिशाख्ये छन्दःशास्रा पेक्षया बहवच्छन्दसां सूक्ष्मभेदा लक्षिता दृश्यन्ते । न च तद्विषय एव शाखे तदनिरूपणं सङ्गच्छते, विना तत्पूर्वभावित्वात् । अस्ति चान्य दपि गमकं यच्छन्दःशास्त्रे न्यङ्कसारिण्याः ‘स्कन्धोग्रीवी क्रौषुकेः । उरोबृहती यास्कस्य' ( ३. २९-३०) इत्याचार्यनामग्रहणपूर्वकं संज्ञाद्वयं प्रादर्शि, प्राति शाख्ये तु '-न्यङ्कसारिणी । स्कन्धोग्रीव्युरोबृहती त्रेधैनां प्रतिजानते ॥'( १६ ४३) इति नामग्रहणनैरपेक्ष्येणैव । तेन छन्दःशास्त्रस्य प्राचीनतावचनेनैव सेिद्धयति । किञ्च दृश्यते प्रातिशाख्ये ‘यजुषां षट् । साम्रां द्विः । ऋचां त्रिः’ (२ ६-८) इति छन्दःसूत्राणामनुवाद् इच, ‘यजुषां षड़चां त्रिःषट् साम्रां द्वादश सम्पदि ।' (१६. १२) इति । तस्मात्प्रातिशाख्यादपि छन्दःशास्त्रमेव प्राचीनम् । प्रातिशाख्ये दृष्टाश्छन्दोविशेषास्तु विशल्यकरण्यां सङ्कहीता एवास्माभिरिति नात्र पुनरुच्यन्ते । कात्यायनप्रणीतं ऋक्सर्वानुक्रमसूत्रं तु प्रायः प्रातिशाख्यानुसारीति तस्य ततोऽर्वाचीनस्वं निर्विवादम् । छन्दःशास्त्रादर्वाक्तनत्वे त्वस्यास्ति स्फुटतरं प्रमाणं यत् छन्दःशास्त्रीययोः ‘न्यूनाधिकेनैकेन निचूदुरेिजैौ । द्वाभ्यां विराट्स्वराजैौ' (छ ३. ५९-६० सर्वा० ३. ४-५) इति सूत्रयोरविकलयोरनुवादः । सर्वानुक्रमे च ‘अर्थ च्छन्दांसि’ इत्युपक्रम्य तृतीयाद्येकादशान्तैः खण्डैग्वेदेऽपेक्षितानां छन्दसां लक्षणान्युक्तानि । अस्माभिस्तु तानि सर्वाणि टिप्पण्यां सोदाहरणानि प्रदर्शितान्येव । शुक्लयजुःसर्वानुक्रमसूत्रं तु छन्दोविषये न ऋक्सर्वानुक्रम सूत्रान्मात्रयापि भिद्यते, अतस्तद्विषये न किञ्चिद्वक्तव्यमस्ति । अझिपुराणे ३२८ तममध्यायमारभ्य ३३५ तमपर्यन्तमष्टभिरध्यायैः क्रमेण परिभाषा, दैव्यादिसंज्ञाः, पादाधिकारः, उस्कृत्यादंनि च्छन्दांसेि-आर्यादिमात्रा वृत्तानि च, विषमवृत्तानि, अर्धसमवृत्तानि, समवृत्तानि, प्रस्तारादि, इति निरूपित मुपलभ्यते । एतञ्च सर्वमपि पिङ्गलोत्कस्य छन्दःशास्रस्यानुवादरूपमेव । तथा च प्रतिज्ञातं तत्र–“छन्दो वक्ष्ये मूलशब्दैः पिङ्गलोक्तं यथाक्रमम् । ( ३२८-१ ) इति । छन्दःशाखे शुद्धांशुद्धपाठपर्यालोचने प्रक्षिप्ताद्यवधारणे च सुतरामुप एतत् । गरुडपुराणे पूर्वखण्डे २००७ तममारभ्य २१ २ पर्यन्तं षड्भिरध्यायैः क्रमेण परिभाषा, मात्रात्तानि, समवृत्तानि, अर्धसमत्तानि, विषमवृत्तानि, प्रस्तारादि