पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८४ तस्मात् सछन्दस एव कर्तव्या न विछन्दसः’ (ऐ.ब्रा.४1८) इत्युपसदः सछन्दस्त्वकरण मनुज्ञायते । तदन्तरेण छन्दोवेदमशक्यं सछन्दस्त्वकरणभिल्यारम्भणीयश्छन्दोवेदः ॥६॥ गायत्रीं ब्राह्मणस्यानुबूयात् । गायत्रो वै ब्राह्मणः । तेजो वै ब्रह्मवर्चसं गायत्री । तेजसैवैनं तब्रह्मवर्चसेन समर्द्धयति ।“त्रिष्टुभं राजन्यस्यानुबूयात् त्रैष्टुभो वै राजन्यः । ओजो वा इन्द्रियं वीर्य त्रिष्टुप् । ओजसैवैनं तदिन्द्रियेण वीर्येण समर्द्धयति ।“जगतीं वैश्यस्यानुब्रूयात् । जागतो वै वैश्यः । जागताः पशवः पशुभिरेवैनं तत्समर्द्धयति” (ऐ ब्रा.५२) इति श्रूयते । तत्र गायत्र्या ब्रह्मवर्चसं तेजः, त्रिष्टुभा त्विन्द्रियं वीर्यमोज जगाल्या च पश्चादयः पदार्था लक्ष्यन्ते । तदन्तरेण गायत्र्यादिविज्ञानमशक्यमेषां विज्ञा नमित्यारम्भणीयश्छन्दोवेदः ॥ ७ ॥ चतुरुत्तैरैवै देवाश्छन्दोभिः सयुग्भूत्वा एतां श्रियमारोहन् यस्यामेत एतर्हि प्रतिष्ठिताः । अभिगर्गायत्र्या सवितोष्णिहा सोमोऽनुष्टुभा बृहस्पतिहल्या मित्रा वरुणौ पङ्कथेन्द्रत्रिधुभा विश्वेदेवा जगत्या । ते एते अभ्यनूच्येते--अमेर्गायत्र्यभवत् । सयुग्वेति । कल्पते ह वा असै योगक्षेमः । उत्तरोतरिणीं ह श्रियमश्रुते अश्रुते प्रजान मैश्वर्यमाधिपत्यं य एवमेता अनुदेवता एतामासन्दीमारोहति क्षत्रियः सन्नि'ति (ऐ ब्रा ३७॥२) हेि श्रूयते । तत्र देवताछन्दसोः सयुक्त्वाख्यानादुत्तरोत्तरिणीं श्रियं प्रजामैश्वर्य माधिपत्यं चापेक्षमाणानामवश्यमेषां छन्दसां वतुरुत्तरत्वविज्ञानमपेक्षितं भवतीत्यारम्भणी ४४ ७१ ४ ‘यद् गायत्रे अधिगायत्रमाहितं त्रैष्टुभाद्वा त्रैष्टुभं निरतक्षत । यद्वा जगज्बगल्याहित पदं य इत्तद्विदुस्ते अमृतत्वमानशुः ॥ इत्येतद्वै तच्छन्दश्छन्दसि प्रतिष्ठापयति कल्पयति देवविशो य एवं वेदे”ति (ऐ.ब्रा.१२॥१) श्रूयते । तदतश्छन्दःप्रतिष्टापदं विदित्वामृत त्वमश्रुवीयेल्यारम्भणीयश्छन्दोवेदः ॥ ९ ॥ “तं सप्तभिश्छन्दोभिः प्रातरहृयन् । तस्मात् सप्तचतुरुत्तराणि छन्दांसि प्रातरनुवाकेऽ नूच्यन्ते ।” इति हि तैत्तिरीयका आमनन्ति ! मैत्रायणीनामध्वरादिविधावप्यान्नायते । देवेभ्यः प्रातर्यावभ्योनुबूहति छन्दांसि वै देवाः प्रातर्यावाणः । छन्दोभ्यो वा एतद् नुवाच आह’-इति । तथाचैतरेयकेऽपि ‘देवेभ्यः प्रातर्यावभ्योहोतरनुबूहीत्याहाध्वर्यु । एते वाव देवाः प्रातर्यावाणो यदग्-ि रुषा अश्विनौ । त एते सप्तभिः सप्तभिश्छन्दोभिरागच्छन्ति ।. आस्य देवाः प्रातर्यादा हृवं गच्छन्ति य एवं वेद” (ऐ. ब्रा. ७॥५) सप्तामेवानि छन्दांस्यन्वाह,“सप्तोषस्याकि छन्दांस्यन्वाह....सप्ताधिनानि छन्दांस्यन्वाह-सप्तधा वै वागवदत् । तावद्वै वाक् लोकाः । एषामेव लोकानामभिजिलै (ऐ.ब्रा.८५७) । तदाहुः-कथमनूच्यः प्रातरनुवाद इति । यथाच्छन्दसमनूच्य:प्रातरनुवाकः । प्रजापतेर्वा एताब्यङ्गानि यच्छन्दांसि । एष उ एव प्रजापतिर्यो यजते ।” (ऐ.ब्रा.७॥८) इति श्रूयते । न चैतच्छन्दोविज्ञानमन्तरेण नुववनं साधीयः संभवतीत्यारम्भणीयश्छन्दोवेदः ॥ १० ॥