पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इमानि च भूयश्छन्दोऽनुशासनस्य प्रयोजनानि यान्यत ऊध्र्वमनुक्रमिष्यामः । बह्वचानां श्रुतौ तावदान्नायते–“प्रजापतिर्वै यज्ञे छन्दांसि देवेभ्यो भागधेयानि व्यभजत् । स गायत्रीमेवामये वसुभ्यः प्रातःसवनेऽभजतू, त्रिष्टुभमिन्द्राय रुद्रेभ्यो मध्यन्दिने जगतीं विधेयो देवेभ्य आदित्येभ्यस्तृतीयसवने । अथास्य यत् खं छन्द आसीद नुष्टुप्-त्वं न्वेव देवानां पापिष्ठोऽसेि, यस्य तेऽहं खं छन्दोऽस्मि यां मोदन्तमभ्युदौ हीरच्छावाकीयामभीति । तदजानात् स खं सोममाहरत् स खे सोमेऽयं मुखमभि पयोहरदनुष्टुभम् । तस्मादनुष्टुबग्रिया मुख्या युज्यते” (ऐ. ब्रा. १२॥२) इति । तदे तच्छन्दोवेदं विद्वांसमन्तरेण कोऽन्यः शक्रोल्येतदर्थ विज्ञातुम् ? अतो दिव्यवेदार्थप्रतिप त्यर्थमारम्भणीयश्छन्दोवेदः ॥ १ ॥ अथो पञ्चवीर्य वा एतच्छन्दो यद्विराट् यत्रिपदा तेनोष्णिहागायत्र्यौ यदस्या एका दशाक्षराणि पदानि तेन त्रिष्टम् । यत् त्रयस्त्रिंशदक्षरा तेनानुष्टुप् । न वा एकेनाक्षरेण च्छदांसि वियन्ति न द्वाभ्यां यद्विराष्ट्र तत्पञ्चमम् । सर्वेषां छन्दसां वीर्यमवरुन्धे सर्वेषां छन्दसां वीर्यमश्नुते सर्वेषां छन्दसां सायुज्यं सरूपतां सलोकतामश्रुते । अन्नादो न्नपतिर्भवति अश्रुते प्रजयान्नार्द य एवं विद्वान् विराजौ कुरुते (ऐ. ब्रा. १॥६) इयेवं विराजोऽश्रवादः श्रूयते; स न पञ्चवीर्यत्वमवगन्तुं शक्रोल्यन्तरेण च्छन्दोवेदमित्या रम्भणीयश्छन्दोवेदः ॥ २ ॥ सर्वेश्छन्दोभिर्यजेदित्याहुः सर्वे छन्दोभिरिष्ट्रा देवाः खर्ग लोकमजयंस्तथैवैतद्य जमानः सर्वेश्छन्दोभिरिष्टा खर्ग लोकं जयति ।...एतानि वाव सर्वाणि छन्दांसि गायत्रं त्रैष्टुभं जागतमन्वन्यानि । एतानि हि यज्ञप्रतमामिव क्रियन्ते । एतैर्ह वा. अस्य छन्दो भिर्यजतः सवैश्छन्दोभिरिष्टं भवति य एवं वेद” (ऐ. ब्रा. २॥३) इति हि श्रूयते । तत्र किं तावत्सर्वेषां छन्दसां खरूपं ? कानि वान्यानीति न तत्त्वतः शक्रोल्यवधारयितुमच्छा न्दसिको न वा यष्टुमित्यारम्भणीयश्छन्दोवेदः ॥ ३ ॥ “स एवं विद्वांश्छन्दोमयो देवतामयो ब्रह्ममयोऽमृतमयः संभूय देवता अप्येति य एवं वेद । यो वै तद्वेद यथा छन्दोमयो देवतामयो ब्रह्ममयोऽमृतमयः संभूय देवता अप्येति ततू सुविदितमि'ति (ऐ. ब्रा. १०॥८) श्रूयते । तदेतस्य छन्दोमयस्य देवताप्ययो यथा भवति तथा ज्ञानं हेि सुज्ञानमित्यस्माकं सुज्ञानं यथा स्यादित्यारम्भणीयश्छन्दोवेदः ॥ ४ ॥ तद्यदाग्नेः:श्या यजति विजित्या एव सा विराट् त्रयस्त्रिंशदक्षराभवति” “त्रयस्त्रिंशद्वै देवाः—अष्टौ वसवः एकादश रुद्राः द्वादशादित्याः प्रजापतिश्च वषट्कारश्च । तत् प्रथम उक्थमुखे देवता अक्षरभाजः करोति अक्षरमक्षरमेवं तद्देवता अनुप्रपिबंति देवपात्रेणैव तद्देवतास्तृप्यन्ति इति श्रूयते” (ऐ. ब्रा. १२॥११) । तदेवं देवता यद्यक्षरभाजः कल्प्यन्ते तत्तर्हि नान्तरेणाक्षरच्छन्दोविज्ञानमेता विज्ञातुं शक्यन्ते । तदेताश्छन्दोभिर्यथा विजानी यामित्यारम्भणीयश्छन्दोवेदः ॥ ५ ॥ ‘न्नन्तो वा एताभिर्देवाः पुरो भिन्दन्त आयन्, यदुपसदः सछन्दसः कर्तव्या न विछन्दसः । यद्विछन्दसः कुर्याद् ग्रीवासु तद्भण्डं दध्यादीश्वरो ग्लावो जनितोः । (४ ४८