पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तस्मादन्नपुत्रादिमोक्षान्तफलसाधनत्वादस्ति प्रयोजनं छन्दःशास्रस्य । ४४ अथ यदुक्तं छन्दःसिद्धौ, हेयोपादेयव्यवस्थाराहित्यादनर्थकमिदं छन्दःशास्रमिति तदप्यत एव नावकल्पते । सर्वं हि विधिवाक्यं सावधारणं भवति. न वावधारणामितर निवृत्तिमन्तरा दृष्टम् । यतवेदं छन्दोविधायकं शास्रमतो नूनमितरवारकेणानेन भवेि तव्यमिति सिद्धं हेयोपादेयव्यवस्थाप्रयोजकत्वं छन्दःशास्त्रस्य । सा च हेयोपादेयव्य वस्था त्रेधा ।-विज्ञातव्यान्येव छन्दांसि न तु न विज्ञातव्यान्यपीति, विज्ञायैव चव जपहोमयज्ञादिषु प्रवर्तेत न त्वविज्ञायापीतेि, भावाभावातिरेकप्रधाना सैका ॥ १ ॥ अथ अनुष्टुभा यजति, बृहत्या गायति, गायत्र्या स्तौतीति” श्रूयते । तत्रानुष्टुभैव यजेत न बृहत्या न गायत्र्या, तथा बृहयैव गायेत नान्यथा, एवं गायत्र्यैव तुवीत नान्यथेत्येवं विजातीयभावद्वयातिरेकप्रधाना द्वितीया ॥ २ ॥ अथ-“पादस्यानुष्टुब् वक्रम्’ ‘न प्रथमात् स्रौ०” “द्वितीयचतुर्थयोरश्चेति' सूत्रेभ्यो वक्रेषु, तथा “खरा अर्द्ध चाय्य द्वेम्” “अत्रायुड्न ज्’ “पष्टो जिति” सूत्रेभ्य आर्यासु िवधिनिषेधप्रधाना तृतीया ॥३ ॥ यदि चेदं शास्त्रं न स्यादवश्यं तत्तर्हि तेष्वेतेषु कामचारः स्यादनर्थश्च प्रपद्येत । ततो नु खलु हेयान् हापयितुमुपादेयान् संचारयितुमुपदिशन्ति स्म ते कारुणिका भगवन्त आचवायाः ॥-॥ ३ ॥ (१ ) अथ यदप्युक्तं-नाविज्ञातार्थज्ञापनार्थमिदं शास्त्रमारब्धव्यमिति, एतदप्यत एव प्रत्याख्यातं वेदितव्यम् । अन्तरेण शास्रारम्भमसम्भवाच्छन्द:खरूपावगमस्यैका न्तमुपयुक्तस्य ॥ “अनुष्टुभा यजति, बृहल्या गायति, गायत्र्या स्तौतीति' श्रूयते । नत्र न ज्ञायतेकानुष्टुप् ? का वृहती ? का गायत्रीति । अज्ञात्वा प्रवर्तमानश्च पापीयान् स्यात् । यत्रापि सतोबृहती महाबृहती महासतोबृहतीत्याख्यायन्ते, तत्रैतांस्तावदच्छान्दसिको वृहतीविकारान् प्रतिपद्येत । छान्दसिकस्तु पादविशेषव्यवस्थया पङ्किविकारः सतो बृहती, त्रिष्टुब्विकारो महाबृहती, जगतीविकारो महासतोबृहती, इलेवमध्यवस्यति । नथा च साधु यज्ञे प्रवर्तते । अन्यथा प्रवर्तमानस्यैतानि छन्दांसि यातयामानि स्युरिल्य वश्यमेषां खरूपज्ञानायोपयुज्यते छन्दःशास्रारम्भः ॥ १ ॥ यदपि तैत्तिरीयका आमनन्ति-“तद्यथा ह वै सूतग्रामण्यः-एवं छन्दांसि । तेष्वसा वादित्यो बृहतीरभ्यूढः । सतोबृहतीषु स्तुवते सतोबृहत् प्रजया पशुभिरसानीलेव'-इति तत्र प्रजया पशुभिश्चाहं सन्मार्गवर्तिनः पुरुषादधिको भवानीत्याशयेन सतोबृहल्या स्तैौतीत्यर्थप्रतिपतेरवश्यमर्थापेक्षित्वमुपदिश्यते नामधेयस्येतेि नामधेयावगमार्थमुपयुज्यते ॥ २ ॥ अथामनन्ति-“व्यतिषक्ताभिः स्तुवते”–इति । न चान्तरेण छन्दोवेदमृत्वः शाक्या व्यतिषक्ताः कर्तुमित्युपयुज्यते छन्दःशास्रारम्भः ॥ ३ ॥ भूयांसश्वार्थवादा श्रूयन्ते छन्दोवेदस्येति तत्तदभ्युदयसिद्धावुपयुज्यते शास्त्रारम्भः ॥४॥