पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६८ यदप्युक्त-नास्य छन्दःशास्रस्य विज्ञातृषु सामथ्र्यविशेषोद्रेकादिफलोपधायकत्वम स्तीति, तद्ग्यत एव प्रत्याख्यातं भवति “अविदित्वा योऽधीते तस्य ब्रह्म निर्वीर्य, स पापीयान् भवति, अथ विज्ञायैतानि योऽधीते तस्य ब्रह्म वीर्यवत्, स जपित्वा हुत्वेष्ट्रा तत्फलेन युज्यते'-इत्येवमाचक्षाणेन भगवता काल्यायनेनान्वयव्यतिरेकाभ्यां छन्दो विज्ञाने एव यज्ञवेदसाध्ययावत्फलोपधायकत्वप्रतिपादनात् । श्रूयते चाभ्युदयसमर्प कत्वं छन्दोविज्ञानस्य । तथाहि-“तस्योष्णिग् लोमानि, त्वग् गायत्री, त्रिष्टुब्मांसम् अनुष्टुप् स्रावानि, अस्थि जगती, पङ्गिर्मजा, प्राणो बृहती, स छन्दोभिश्छन्नः । यच्छ न्दोभिश्छन्नस्तस्माच्छन्दांसीत्याचक्षते ।”, इत्याख्याय “छादयन्ति ह वा एनं छन्दांसि पापात्कर्मणो यस्यां कस्यांचिद्दिशि कामयते” (ऐ. आ. २॥१॥६) इत्यारण्यके समाम्रायते तस्मात् पुरुषस्य पापसंबन्धं वारयितुमाच्छादकत्वाच्छन्द इत्युच्यत इत्यस्ति प्रयोजनं छन्दःशास्त्रस्य । तथा तैत्तिरीया अप्यामनन्ति–“प्रजापतिरमिचिनुत स क्षुरपविभूत्वा तिष्ठन् नं देवा बिभ्यतो नोपायन् ते छन्दोभिरात्मानं छादयित्वोपायन् तच्छन्दसां छन्दस्त्वम्’ (तै.सं. ५॥६॥६) इति । तस्म चीयमानमिसन्तानस्य छादकत्वाच्छन्दस्त्वमित्यस्ति प्रयोजनं छन्दःशास्त्रस्य ॥ तथा छान्दोग्योपनिषदि श्रूयते–“देवा वै मृत्योर्बिभ्यतस्रयीं विद्यां प्राविशन् ते छन्दोभिरच्छादयन् यदेभिरच्छादयंस्तच्छन्दसां छन्दस्त्वम्” (१॥४॥२) इति तस्मादपमृत्युं वारयतीति छन्द इत्युच्यते । ततोऽस्ति प्रयोजनं छन्दःशास्त्रस्य ॥ अथान्यो भत्रवर्णः श्रूयते “गायत्रेण च्छन्दसा त्वा छादयामि त्रैष्टुभेन च्छन्दसा त्वा छादयामि जागतेन च्छन्दसा त्वा छादयामि” इति ततश्छन्दसामेषां रक्षानुकूलसंव रणसाधनत्वादस्ति प्रयोजनं छन्दःशास्रस्य ॥ २ ॥ अथ ‘पुरा असुरैः पराभूताः सुरा यदेभिर्गायत्रादिभिः खमात्मानं प्रच्छाद्य पुन स्तान् जिग्युस्तच्छन्दसां छन्दस्त्वमिति वृद्धपराशराद्युक्तश्छन्दःसंवृतशरीरस्य शत्रुपरेि भावकत्वं विजयशालित्वं च संसिद्धं भवतीत्यस्ति प्रयोजनं छन्दःशास्त्रस्य । स्मर्यते चायमर्थो भगवता कात्यायनेनापि सर्वानुक्रमणीसूत्रे–“अर्थेप्सव ऋषयो देवताश्छ न्दोभिरभ्यधावन्”(स.खं. २)इति । “अन्नपुत्रादिमोक्षान्तं फलमात्माधीनं कर्तुमिच्छन्तो मधुच्छन्दःप्रभृतयः संवननान्ता ऋषयः देवताः सूक्तहविर्भागिनीः, छन्दोभिर्गायत्र्यादि भिरुपायभूतैस्तद्युक्तमत्रैर्वा ‘अर्थस्य प्राप्तावयमेवोपाय इति’ दृढसंकल्पाः श्रद्धयागच्छ शि'ति हि तदर्थमाह--षड्गुरुशिष्योऽपि । अन्यचायमाह-(स. भा. उपसं.) ‘ऋषिनामाषैगोत्रज्ञ ऋषेः संस्थानतामियात् । एकैकस्य ऋषेज्ञानात् सहस्राब्दा स्थितिर्भवेत् ॥ १ ॥ छन्दसां चैव सालोक्यं छन्दोज्ञानादवाप्नुयात् ॥ २ ॥ तस्यास्तस्या देवतायास्तद्भावं प्रतिपद्यते यां यां विजानाति नरो देवतामिति निर्णयः ॥ ३ ॥ ऋष्यादिविज्ञानफलमनुभूय सुपूजित खाध्यायस्य फलं पश्चाच्छ्त्या दत्तं प्रपद्यते ॥ ४ ॥’ इति ।