पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७२ ‘तदाङ्गः स वै होता स्याद्य एतस्यामृचि सर्वाणि छन्दांसेि प्रजनयेदिति । एषा वाव त्रिरनूक्ता सर्वाणि च्छन्दांसि भवति । एषा छन्दसां प्रजातिः ।” (ऐ. ब्रा. ७॥६) इति श्रयते । तदतश्छन्दः:प्रजननविद्याया होतृत्वमासादयेयमित्यारम्भणीयश्छन्दोवेदः ॥११ ।। “अनिर्वे देवानामवमो विष्णुः परमस्तदन्तरेण सर्वा अन्या देवताः । आझावैष्णवं पुरोळाशं निर्वपन्ति दीक्षणीयमेकादशकपालं सर्वाभ्य एवैनं तद्देवताभ्योऽनन्तरंयं निर्वपन्ति । अन्निर्वे सर्वा देवता विष्णुः सर्वा देवता एते वै यज्ञस्यान्ये तन्वौ यदमिश्व विष्णुश्च । तद्यदाझावैष्णवं पुरोडाशं निर्वपन्ति । अन्तत एव तद्देवानृक्षुवन्ति तदाहुर्यदेकादशकपालः पुरोळाशो द्वावमाविष्णू । कैनयोस्तत्र कृप्तिः, का विभक्ति रिति । अष्टाकपाल आझेयोऽष्टाक्षरा वै गायत्री गायत्रममेश्छन्दः त्रिकपालो वैष्णव हिींदं विष्णुव्र्यक्रमत । सैनयोस्तत्र कृप्तिः सा विभक्तिरि” (ऐ. ब्रा. १॥१) त्यान्नायते । तत्रैवमेकादशकपाले देवतयोः छुप्तिविभक्ती कर्तु पारयेमेल्यारम्भणीयश्छन्दोवेदः । १२ ।। 'तेजो वै ब्रह्मवर्चसं गायत्री । आयुर्वा उष्णिग् । वाग्वा अनुष्टुप् । श्रीवै यशश्छन्दसां बृहती । पाङ्गो वै यज्ञः । ओजो वा इन्द्रियं वीर्ये त्रिष्टुप् । जागता वै पशवः ।’ (ऐ. ब्रा. १॥६) इति श्रूयते । तदतस्तत्तच्छन्दोयाज्यामनुरुन्धाना यथा तत्तत्कामेषु कृतकृत्याः स्युरिल्यारम्भणीयश्छन्दोवेदः ॥ १३ ॥ “ते देवा अबुवन्-विराड्याज्यास्तु निष्केवल्यस्य या त्रयस्त्रिंशदक्षरा । त्रयस्त्रिंशद्वै देवाः । अष्टौ वसव एकादश रुद्राः द्वादशादित्याः प्रजापतिश्च वषट्कारश्च । देवता अक्ष रभाजः करोति । अक्षरमक्षरमेव तद्देवता अनुप्रपिबन्ति देवपात्रेणैव तद्देवतास्तृप्यन्ति यं कामयेत-अनायतनवान् स्यादितेि अविराजास्य यजेद् गायत्र्या वा त्रिष्टुभा वान्त्रे : वा छन्दसा वषट् कुर्यादनायतनवन्तमेवैनं तत्करोति । यं कामयेत-आयतनवःः स्यादिति । विराजस्य यजेदायतनवन्तमेवैनं तत्करोति ।” (ऐ. ब्रा. १२॥११) इति श्रूयते । तदन्तरेण छन्दोवेदमवाक्यं तु यथाकामं याज्या विशेषोपधानमेिल्यारम्भ १४ "या.धृता स वषट्कारः***यानुमतिः सा गायत्री “याराका सा त्रिष्टुप्•या सि नीवाली सा जगती“या कुहूः सानुष्टुप् । एतानि वा व सर्वाणि च्छन्दांसि गायत्रं त्रैष्टुभं जागतमानुष्टुभमन्वन्यानि । एतानि हि यज्ञे प्रतमामिव क्रियन्ते । एतैर्ह वा अस्य छन्दोभि र्यजतः सवैश्छन्दोभिरिटं भवति य एवं वेद । (ऐ. ब्रा. १३३) यः सूर्यः स धाता स उ ; एव वषट्कारः•या द्यौः सानुमतिः सो एव गायत्री“योषाः सा राका सो एव त्रिष्टुप •या गौः सा सिनीवाली सो एव जगती“या पृथिवी सा कुहूः सो एानुष्टुप् । एतानि वाव सर्वाणिच्छन्दांसि। गायत्रं त्रैष्टुभं जागतमानुष्टुभमन्वन्यानि एतानि हियज्ञे प्रतमामिव क्रियन्ते” (ऐ. ब्रा. १५॥४) इत्यादैतरेयके श्रूयते ॥ मैत्रायणीयानां राजसूयब्राह्मणेऽप्या जायते-“गायत्र्यनुमतिः । त्रिष्टुब् राका। जगती सिनीवाली। कुहूरनुष्टुप् । धाता वषट् कारः । या पूर्वा पौर्णमासी सानुमतिः योत्तरा सा राका । या पूर्वामावस्या सा सिनीवाली योत्तरा सा कुहूः । चन्द्रमा एव धातु.” इत्यादि । तदन्तरेण च्छन्दोवेदमशक्यमासामनुम तिराकासिनीवालीकुहूनां सर्वच्छन्दोभिः:सारूप्यमवगन्तुमित्यारम्भणीयश्छन्दोवेद ॥१५॥