पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इत्येवं हि पदसंख्यानं स्मर्यते, छन्दांसि पुनः ससैवेति विषयमेदो विज्ञायते । अथ किमे तान्यक्षराष्वेव छन्दः ? ! नेलाह चत्वारि वाव शतसहस्राणि द्वात्रिंशचाक्षरसहस्राणि’ इत्येवमक्षरसंख्यानं स्मर्यते । त साझ तावदक्षराणि छन्दः स्यात् । अथ किं यदत्रैते वर्णाः श्रूयन्ते, तच्छन्दः ? । नेल्याह वर्णा हि ते भवन्ति । व्यभिचरन्ति व ते ते वर्णाः, अथाप्यनुवर्तते छन्दस्त्वमतो नैते वर्णश्छन्दः स्यात् । किं यदयं वर्णक्रमस्तच्छन्दः ? । नेत्याह-क्रमो हि नाम पौर्वापर्यम् । न चानन्तर्भाव्यवर्णरूपं पैौर्वापर्य शक्यतेऽध्यवसातुम् । तथा च वर्णव्यभिचारे क्रमा तिचारः प्राप्तोति, अथाप्यनुवर्तते छन्दस्त्वमतो नैष वर्णक्रमश्छन्दः स्यात् ॥ अथ यदयं गुरुलघुक्रमस्तच्छन्दः ? । नेल्याह--यत्रापि नैवं गुरुलघुक्रमस्तत्रापीष्यते छन्दोव्यवहारः । स न स्यात् अथोच्येत । नोच्यते त्विदमित्थं गुरुलघुक्रमश्छन्द इति ॥ किं तर्हि यथाकथं वित्क्रियमाणो गुरुलघुक्रमश्छन्दः स्यात्? । नैतदेवमपि शक्यं वक्तुम् । गद्यपद्यविवेक स्तत्तर्हि व्याहन्येत । यथाकथंचित्क्रमस्य छन्दस्त्वेऽभ्युपगम्यमाने तदवच्छेदकमेदा संभवात् सप्त छन्दांसीति व्यवहारोपेि न प्राप्तोति । तस्मात्रैषोपि गुरुलघुक्रमश्छन्द स्थात् ॥ अथ यदत्रल्यमक्षरपरिमाणं तच्छन्द इति चेत्रैतदपि शक्यं विज्ञातुम्, यत्रापि नैतदक्षरपरिमाणं तत्रापीष्यते छन्दोव्यवहारः । स न स्यात् ॥ अथ यथाकथंचिदक्ष रपरिमाणं छन्द इति चेत्रैतदप्यस्ति । क्रमवादेन प्रत्युक्तत्वात् ॥ अथ किमनेन मत्रेण वत्प्रतिपाद्यते, सा विद्या छन्दः ? । नेल्याह-विद्या हि नाम सा अर्थविषयेिणी स्यात् शब्दविषयं तु छन्दः प्रतिपद्यते-इति विषयमेदो भवति । ननु च भोः ! न मञ्चबो ध्योऽर्थ एव विद्या स्यात्, किं तर्हि मन्त्रस्यापीष्यते विद्याशब्देन व्यपदेशः । तथा च मत्रत्रैविध्याद् ऋग्यजुःसामानीति त्रैविद्यमुपदिश्यते । गद्यपद्यगानानि चैतानि ऋग्यजुः सामानि न छन्दसोऽतिरिच्यन्ते । पद्यादित्रैविध्येन छन्दलैविध्यस्य सांप्रदायिकैरभ्यु पेतत्वात् ॥ सत्यमेतत् । यदि हि नाम पद्यमृक्, गदयं यजुः, गेयं साम-इलेयवाभिप्रेतं भवताम्; सत्तर्हि नूनमेषां मेदामेदप्रयोजकधर्मानप्युदाहरिष्यति-भवान् किंनिवन्ध नोऽयं मेदः ? पद्यमितराभ्यामतिरिच्यते गद्यमितराभ्यामिति । अथ कस्मात् पुनः पद्य मपि छन्दो गद्य च गेयं चेति ? । तदर्थमिदं पृच्छामः--किमिदं छन्द? इति ॥ ( इति छन्दस्तत्ववादे प्रश्रग्रन्थः । ) अत्रोच्यते--प्राणमात्रा छन्दः । सर्व चेदं स्थावरजङ्गमं सप्राणमेवेह जीवति । प्राण धारणं हि जीवनम् । अतः प्राणापगमे निजीवं विनश्यति सर्वम् । स च प्राण सर्वत्र व्यक्तिभेदभिज्ञया कयाचिनियतयैव मात्रयावस्थाय खप्रणीतं स्वायत्तं शरीरम धितिष्ठतीति प्रतिपद्यते । तत्र वाचिकप्राणः खर इत्युच्यते । तन्मात्रा वाचिकच्छन्दः । एवं भौतिकप्राणो वैश्वानरः, तन्मात्रा च भौतिकच्छन्द इत्यनुसंधेयम् । मात्रा व पुनरवच्छेदः । यद्यपि च नियतासु वाक्षु प्रयुञ्जते छन्दःशब्दम्; अथापि नैतावता वागेव छन्दःशब्दवाच्येति भ्रमितव्यम् । नीलश्वेतादिशब्दानां गुणवाचकतया जाति