पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शब्दत्वेऽपि गुणिपरत्वेनोपचाराद् गुणशब्दत्ववदस्य छन्दःशब्दस्यापि गुणशब्दत्वंच्यव हारोपपत्तेः । तस्मादवच्छेदश्छन्द इत्येव सिद्धान्तः । स च मानेन वा प्रतिष्ठया वा तुलि तकेन वा क्रियमाणो वस्तुखरूपमर्यादाबन्धः । ननु–‘स च्छन्दोभिश्छन्नस्तस्माच्छन्दां सीलयाचक्षते ।’ ‘ते छन्दोभिररात्मानमाच्छादयन्, यदेभिराच्छादयन्, तच्छन्दसां छन्दः स्त्वम् ।’ ‘ते छन्दोभिरात्मानं छादयित्वोपायन्, तच्छन्दसां छन्दस्त्वम् ।’ ‘छादयन्ति ह वा एनं छन्दांसि पापात् कर्मणः ।’ ‘गायत्रेण छन्दसा त्वा छादयामि’ इत्याद्यसकृन्निर्वच नश्रवणादाच्छादकस्य छन्दस्त्वं लभ्यते, नत्ववच्छेदस्य । आच्छादकानामवच्छेदकत्वसंभ वेऽपि अवच्छेदकानामाच्छादकत्वासंभवात् । अत एव तु लोकेऽपि मानस्य प्रतिष्ठाया स्तुलितकस्य वा छादकत्वाप्रसिद्धिः-इति चेन्न; अप्रसिद्धेरप्रसिद्धेः । तथा हि-केयमप्रः सिद्धिः? । लौकिकानामप्रतिपत्तिर्वा, खरूपतोऽसत्त्वं वा? । नाद्यः, न हि लौकिकानामप्र तिपत्त्या प्रमाणसिद्धोऽर्थः शक्यमनभ्युपगन्तुम्; प्रतिपत्तिमात्रेण वा प्रमाणान्तरैरसिद्धः शक्यं खीकर्तुम् । व्यवहारसिद्धिप्रवणा हेि लौकिका न वस्तुसत्त्वमपेक्षन्ते । ‘शब्दज्ञानाः नुपाती वस्तुश्शून्यो विकल्प' इति पातञ्जलोत्क्रीलया विकल्पवृत्त्या व्यवहरतामसत्यप्यर्थे प्रतिपतिदर्शनात् । अत एवारूपत्वे प्रमाणतः सिद्धेऽपि चास्यशृङ्गारकीत्र्यादीनां शुक्रत्वं, प्रेमानुरागवीरादीनां रक्तत्वं, क्रोश्वापर्कील्र्यादीनः कृष्णत्वमनृतं व्यवहारतः प्रतिपद्यन्तेन तु सन्तमर्थम् ॥ 3-‘अझे नक्षत्रमजरमा सूर्य रोहयो दिवि । दधुञ्ज्योतिर्जनेभ्यः ॥ १ ॥’ (ऋ. ८ अ. ८ अ. १४ व.) २–‘प्रजाहं तिस्रो अत्यायंमीयुन्यं9न्या अर्कमभितो विविश्रे । बृहद्ध तस्थौ भुवनेष्वन्तः पर्वमानो हरित आ विवेश । ’ (ऋ. ६ अ. ७ अ. ८ व.) ३-‘इदं श्रेष्ठं ज्योतेिषां ज्योर्तिरुत्तमं विश्वजिन्र्द्धनजिदुच्यते बृहत् । विश्वभ्राइ भ्राजो भहिसूर्यो दृश उरु पंप्रथे सह ओज़ो अच्युतम् (ऋ. ८ अ. ८ अ. २८ व.) ४-‘एषो ह देवः प्रदिशो नु सर्वाः पूर्वो ह जातः स उ गर्भ अन्तः । स एष जातः स जनेिप्यमाणः प्रत्यङ्जनास्तिष्ठति रार्वतोमुखः ।।' (यजु. ३२ अ. ३ क. ४ मं.) ५-‘एकं एवामित्रैहुधा सद्धि एकः सूर्यो विश्वमनु प्रभूतः । एकैवोषाः सर्वमिदं विभात्येकुं वा इदं वेिभूव सर्वम् ।’ ६-‘सोमः पूषा च चेतनुर्विश्वासां सक्षितीनाम् । देवत्रा रथ्योर्हिता ।।' मः. २ प्र. २ अ. ६ ६.) अर्ह सूर्यमुभयतो ददर्श अहं देवानां परमं गुहा थन् ॥