पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तथा मरुद्भक्तं द्रविणं विट् प्रतिपद्यते । ब्रह्मशब्देन चात्र यज्ञः, क्षत्रशब्देन च राष्ट्र विक्ष्यते । ‘ब्रह्म वा एष प्रपद्यते यो यज्ञ प्रपद्यते । ब्रह्म वै यज्ञः । क्षत्रं वा एष प्रपद्यते यो राष्ट्र प्रपद्यते । क्षत्रं हि राष्ट्रम् ।' इयैतरेयादिश्रवणात् । यज्ञशब्दः पुनरत्र सोमसूर्याधिष्ठितत्रयीविद्यापरः । अयं वै यज्ञो योऽयं पवते । तदिमं यज्ञ संभृत्य एतस्मिन् यज्ञे प्रतिष्ठापयति । यदैन । यतं संदधातीति । यज्ञ वा एष जनयति यो यजते । सैषा त्रयी विद्या यज्ञः । तस्या एतच्छिल्पमेष वर्णः ॥’ इति । प्रजापतिर्यज्ञमसृजत । यज्ञ सृष्टमनु ब्रह्मक्षत्रे असृज्येताम् । ब्रह्मक्षत्रे अनु द्वय्य प्रजा अस्मृज्यन्त । हुतादश्वाहुतादव । ब्रह्मवानु हुतादः । क्षत्रमन्वहुतादः । एता वै प्रजा हुतादो यद् ब्राह्मणाः । अथैता अहुतादो यद् राजन्यो वैश्यः शूद्र इति । यज्ञाद्वै प्रजाः प्रजायन्ते । यज्ञात् प्रजायमाना मिथुनात् प्रजायन्ते । मिथुनात् प्रजायमाना अन्ततो यज्ञस्य प्रजायन्ते ।’ इत्यैतरेयादिश्रुतिभ्यः सर्वजगदुत्पत्तिस्थितिक्रियापरिकरविद्याया एव यज्ञशब्दत्वव्यव स्थापनात् । ईदृशयज्ञार्थप्रतिपादनपरतयैव च सर्व एवैते वेदाः प्रवर्तन्ते इत्यप्यवधेयम् । तथा च-विद्यादयो ब्रह्मप्रकाराः ब्राह्मणस्य खम् । तच्चामिभक्तम्, गायत्रीच्छन्द साध्यमतोऽमिभक्तया ब्रह्मणो गायत्रीत्वम् । राष्ट्रादयो हि क्षत्रप्रकारा राजन्यस्य स्खम् । तचन्द्रभक्तम्, त्रिष्टुप्छन्दः साध्यमत इन्द्रभक्तया क्षत्रस्य त्रिष्टुप्त्वम् । विडेव तु इषोर्ज रयिपशुपुष्ठयादिमेदभिन्ना वैश्वस्य. स्खम् । तच्च वैश्वदेवभक्तम्, जगतीछन्दः साध्यमती विश्वदेवभक्तया विशो जगतीत्वमितीत्थं द्रविणानामपि संसिद्धं भक्तया छन्दस्त्वमतो नातेि रिक्तार्थत्वं प्रसज्यते-इत्यवधेयम् ॥ तथा चागल्यप्रतिगच्छदर्थेषु संस्कारेषु द्रविणेषु च। छन्दःशब्दप्रयोगेऽपि नार्थान्तरतेति संसिद्धम् ॥ स्यादेतत् । (१)-अथापि यदेतदाध्वर्यवे छन्दोभाषाम्रायते मा च्छन्दः, प्रमा च्छन्दः, प्रतिमा च्छन्दः, अस्त्रीवयश्छन्दः , पङ्किश्छन्दः, उष्णिक् छन्दः, बृहती च्छन्दः, अनुष्टुप् छन्दो, विराट् छन्दो, गायत्री च्छन्दः, त्रिष्टुप् छन्दो जगती च्छन्दः ॥ १ ।।' पृथिवीच्छन्दोऽन्तरिक्ष छन्दो चौश्छन्दः समाश्छन्दो नक्षत्राणि च्छन्दो मनश्छन्दो वाक्छन्दः, कृषिश्छन्दो हिरण्यं छन्दो गौश्छन्दोऽजाश्छन्दोऽश्वश्छन्दः ॥ २ ॥ “एवश्छन्दो वरिवच्छन्दः शम्भूश्छन्दः परिभूश्छन्दः आच्छच्छन्दो मनश्छन्दो वाच ३छन्दः सिन्धुश्छन्दः समुद्रं छन्दः सलिलं छन्दः संयच्छन्दो वियच्छन्दो बृहच्छन्दो रथन्तरं छन्दो निकायच्छन्दो विवधश्छन्दो गिरश्छन्दो भ्रजश्छन्दः सन्तुप्छन्दोऽ