पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९ तस्मात्ते आद्याः—अन्नधानायसूज्यन्त । तस्माद्भयांसोऽन्येभ्यो भूयिष्ठा हि देवता अन्व सृज्यन्त । पत्त एकविंशं निरनिमीत । तमनुष्टुप् छन्दोऽन्वसृज्यत । वैराजं साम, ग्छे अश्वः पशूनाम् , तस्मात्तौ भूतसंक्रामिणाचवश्च शूद्रश्च । तस्माच्छूद्रो यज्ञेऽ नवकृप्तो—न हि देवता अन्वसृज्यत । तस्मात्पादावुपजीवतः, पत्तो ह्यसृज्येताम् । प्राण वै त्रिवृत्, अर्धमासाः पञ्चदश, प्रजापतिः सप्तदशः, त्रय इमे लोकाः; असावादित्य एक विंशः । तस्मिन् वै एते श्रिताः, एतस्मिन् प्रतिष्ठिताः, य एवं वेदैतस्मिन्नेव श्रयते एत स्मिन् प्रतितिष्ठति ॥’ इति () शतपथ० ७ ॥ १ ॥ १ इति मन्त्रब्राह्मणाभ्यां तथान्नानात् । यत्तु—एवंविधादेव मन्श्रब्राह्मणाद्यान्नानात् सृष्टयादौ मनुष्याकारपरमेश्वरस्य मुखाद्यज्ञेभ्यः श्चत्वारः सृष्टयादिभूता ब्राह्मणक्षत्रियवैश्यशूदा उत्पन्ना इति लभ्यते, ततश्चोत्पतिलभ्यमेव ब्राह्मणत्वादिकं न संस्कारलभ्यमित्याक्षिपन्ति, तदज्ञानात् । अर्ध वै प्रजापतेरात्मनो धैर्यमासीद्र्ष माल्यम् । यद्वैर्य-सोमो वै सः । ततो ब्राह्म णमसृजत । यन्माल्व्यं-सुरा वै सा । ततो राजन्यमसृजत ॥’ इत्यादिश्रुतिष्विवेहापि मुखाद्राह्मणमसृजत, उरसः क्षत्रियमित्यादीनामपेक्षितार्थवेिशेषपरत्वात् । तदित्थं सिद्धम झ्यादिभक्तिसिद्धद्रविणसंयोगाड्राह्मणादिसंस्कारविशेषाणामपि गायत्र्यादित्यमिति दिक् ॥ निरूपयिष्यते चायमर्थो वैशदेन धर्मसमीक्षायामित्यतोऽत्र विरम्यते।। अथ द्रविणम् ‘तत्र समिधमातिष्ठ । गायत्री त्वा छन्दसामवतु, त्रिवृत् स्तोमः, रथन्तरं साम अन्निर्देवता, ब्रह्म द्रविणम् । उप्रामातिष्ठ । त्रिष्टुप् त्वा छन्दसामवतु, पञ्चदशः स्तोम बृहत्साम, इन्द्रो देवता, क्षत्रं द्रविणम् ॥ विराजमातिष्ठ । जगती त्वा छन्दसामवतु । सप्तदशः स्तोमः, वैरूपं साम, मरुतो देवताः, विड् द्रविणम् ॥ उदीचीमातिष्ठ । अनुष्टुप् त्वा छन्दसामवतु, एकविंशस्तोमः, वैराजं साम, मित्रावरुणौ देवता, बलं द्रविणम् ॥ ऊध्र्वामा तिष्ठ, पङ्किस्त्वा छन्दसामवतु, त्रिणवत्रयस्त्रिौ स्तोमौ । शाकररैवते सामनी । बृहस्पति र्देवता । वचों द्रविणम् ॥’ इति तैत्तिरीयश्रवणात प्राचीमारोह । गायत्री त्वावतु, रथन्तरं साम, त्रिवृत स्तोमो, वसन्त ऋतुः, ब्रह्म द्रविणम् । दक्षिणामारोह । त्रिष्टुप् त्वावतु, बृहत्साम, पञ्चदशः स्तोमो, ग्रीष्म ऋतुः, क्षत्रं द्रविणम् ॥ उदीचीमारोह । जगती त्वावतु, वैरूपं साम, सप्तदशः स्तोमो, वर्ष ऋतुः, विद् द्रविणम् ॥ प्रतीचीमारोह । अनुष्टुप् त्वावतु, वैराजं साम, एकविंशः स्तोमः, शरदृतुः, फर्स द्रविणम् ॥ ऊध्र्वामारोह । पङ्किस्त्वावतु, शाकररैवते सामनी, त्रिणवत्रयस्त्रिशैौ स्तोौ हेमन्तशिशिरावृत्तू । वचर्वो द्रविणम् ।।' इति माध्यन्दिनीयश्रवणाञ्चाभितं द्रविणं ब्रह्म, इन्द्रभकं द्रविणे.: क्षत्रम्