जुष्टुप् छन्दः ककुप्छन्दत्रिककुप्छन्दः काव्यं छन्दोऽकुपं छन्दः पदपश्छन्दोऽक्षरप श न्दो विष्टारपङ्किश्छन्दः क्षुरोमृज्वा छन्दः प्रच्छच्छन्दः पक्षश्छन्द एवश्छन्दो वस्-ि वश्छन्दो वयश्छन्दो वयस्कृच्छन्दो विशालं छन्दो विष्पर्धाश्छन्दश्छदिश्छन्दो दूरोहर्ण छन्दस्तन्द्रं छन्दोऽङ्काङ्क छन्द इति ॥ ३ ॥ (२)-यञ्च वाथर्वणे त्रयश्छन्दोविशेषा आख्यायन्ते ‘त्रीणि छन्दांसि कवयो वियेतिरे पुरुरूपं दर्शतं विश्वचक्षणम् । आपो वाता ओषध यस्तान्येकस्मिन् भुवन आर्पितानि' ॥ १ ॥ इति । तेनातिरिच्यते छन्दःपदार्थ इति गम्यते-इति चेत् । न, यथा हि गायः त्र्युष्णिगनुष्टबादयो विष्टारपङ्किसतोबृहतीककुवादयश्च वाचिकच्छन्दोविशेषा उपदिः श्यन्ते । एवमेव सन्ति खलु माप्रमाप्रतिमादयः, एवोवरिवःशम्भ्वादयश्वार्थिकच्छन्दी विशेषास्तत्तदर्थव्यवस्थापका इत्यत्रैव छन्दोभाषातात्पर्यावगमात् । तत्र च सिद्धं परिच्छेद लक्षणं छन्दस्त्वमिति नार्थान्तरत्वप्रसक्तिः ॥ यत्पुनराथर्वणेऽवादीनां त्रयाणां छन्दस्त्वमुपदिश्यते, तस्यायमाशयः--यदिदमनेक रूपं विश्वशब्देनाख्यातं किंचिदृश्यते तदेतत्सर्वं त्रेधा व्यवच्छिद्य गृह्यते । आपश्च वाता ौषधयश्चेति । एतदेवान्यत्र तिस्र एव देवास्तेजोऽबन्नानीलेयेवं देवताप्रकरणेनान्नातम् । भवन्ति हि निबिडावयवास्तरलावयवा विरलावयवाश्च पदार्थमेदा लोके । न चैतत्रैवि ध्यापवारेण किंचिदिहोपलभ्यते । तत्र निबिडावयवा अनौषधिमृदादिशब्दैः, तरला वयवा अप्छब्देन, विरलावयवास्तु तेजोवाय्वादिशब्दैव्र्यपदिश्यन्ते । औषध्यादिवाता दीनां खानुगतभावोपलक्षकत्वात् त्रयोऽप्येते भावा एकैकस्मिन्नर्थे प्रत्यर्पिता द्रष्टव्याः । सर्वस्याप्यर्थजातस्य मृदवस्थया, अबवस्थया, तेजोऽवस्थया व निमित्तानुरोधेन विप ििणमनात् । एतेष्वेव त्रिषु भावेषु विश्वमेतत्प्रतिष्ठितमित्यतः सिद्धमेषां प्रतिष्ठालक्षणं छन्दस्त्वमिति नार्थान्तरत्वप्रसक्तिः ॥ यतु (१)-शब्दचन्द्रिकादौ छन्दःशब्दस्य विषपरत्वम्,-(२)-यञ्च ‘छन्दा लुवृतिदुःसाधाः सुहृदो विमनीकृताः’ इत्यादौ वा तस्य रहःपरत्वम्, (३)- ‘मयोच्यमानं यदि ते श्रोतुं छन्दो विलासिनि । श्रूयतामभिधास्यामि श्रुत्वा चैतद्विधीयताम् (रामा. २ । ९ । ७) इत्यादिषु रुविपरत्वम् (४)-‘वरदानात् पितुः कामं छन्दमृत्युरसि प्रभो ।' इत्यादिष्वभिलाषपरत्वम् , (५)-‘दक्षिणः सरलोदारपरच्छन्दानुवर्तिषु ।' इत्यादिषु बशतापरत्वम्, (६)-‘खच्छन्दं ब्रजसुन्दरीभिरभितः प्रत्यङ्गमालिङ्गितः ।' इत्यादिषु खैराचार
पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/३४
दिखावट