पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खरूपसंपादनोद्देशेन सत्यक्षेत्रे देवब्रतरूपे गार्हपत्याहवनीयाभिसमीपे वा संस्कार्यस्य संस्था पनम् । सोऽयं देवभावकः संस्कारो द्रष्टव्यः । तथा च अतोपायनमभ्याधेयं च पुरस्कृत्य कृतममिहोत्रम्, दर्शपूर्णमासौ, पिण्डपितृयज्ञः, आप्रयणेष्टिः, चातुर्मास्यम्, निरूढपशु बन्धः, सौत्रामणी चेत्येते सप्तहविर्यज्ञसंस्थाख्या यजमाने देवत्वयोग्यतारूपातिशयाधायः कत्वाद् विशेषकसंस्कारा भवन्ति । आरब्धयज्ञो वा एष आरब्धदेवतो यो दर्शपूर्णमासाभ्यां यजते’ इलैतरेयादिश्रवणात् । अथ गृह्यामिपरिग्रहः, पञ्चयज्ञानुष्ठानम्, अष्टका पार्वणम्, श्रावणी, आग्रहायणी चैत्री, आक्षयुजीलेयताः सप्त पाकयज्ञसंस्थाः । औपासनहोमः, वैश्वदेवम्, पार्वणम् अष्टका, ग्रहमासिकश्राद्धम्, बलिः, श्रावपी चेति वा सप्तपाकयज्ञाः । औपासनम्, वैश्व देवः, स्थालीपाकः, आग्रयणम्, सर्पबलिः, ईशानबलिः, अष्टकान्वष्टका चेत्येवं विभक्ता वा स्मार्ताझिकृत्याः सप्त पाकयज्ञाः, यजमाने ऋणसंबन्धोपगतदोषमार्जकत्वाच्छोधक्रसं स्कारा भवन्ति । जायमानो वै ब्राह्मणस्त्रिभित्रणवा जायते । ब्रह्मचर्येणर्षेिभ्यो, यज्ञेन देवेभ्यः प्रजया पितृभ्यः । एष वा अनृणी, यः पुत्री यज्वा ब्रह्मचारी’ इति श्रवणात् । ‘ऋरणं ह वै जायते योऽस्ति, स जायमन एव देवेभ्यः, ऋषिभ्यः, पितृभ्यो, मनु ष्येभ्यः । स यदेव यजेत, तेन देवेभ्य ऋणं जायते, तद्येभ्य एतत्करोति । यदेनान् यजते यदेभ्यो जुहोति ॥ १ ॥ अथ. वदेवानुब्रवीत तेन ऋषिभ्य ऋणं जायते । तद्येभ्य एतत्करोति । ऋषीणां निधियोप इतेि ह्यनूचानमाहुः ॥ २ ॥ अथ यदेव प्रजामिच्छेत, तेन पितृभ्य ऋष्णं जायते । तद्धक्षेत एतत्करोति । यदेषां संतताव्यव च्छिन्ना प्रजा भवति ॥ ३ ॥ अथ यदेव बासवेत, तेन मनुष्येभ्य ऋणं जायते । तद्येभ्य एतत्करोति । यदेनान् वासयते, यदेभ्योऽशनं ददाति ॥ ४ ॥ स य एतानि सर्वाणि करोति स कृतकर्मा । तस्य सर्चमाप्त सर्व जितम् ॥’ इति शतपथादिश्रवणेभ्यश्च पञ्चयज्ञादीनामृष्णशोधकत्वेन प्रतिपत्तः । सोऽयमेतावान् यजमानसंस्कारः सौम्यादिकाम्यसंस्कारयोग्यतासंपत्त्यर्थः । अत्र संस्कर्तृसंस्कार्ययोरेक त्वान्नाधिकारितावच्छेदकं भिद्यते ॥ अतः परममिष्टोमो,ऽत्यमिष्टोमः, उक्थः, षोडशी, वाजपेयः, अतिरात्रः, आप्तोर्यम वेति सप्त सोमसंस्वाः । महाव्रतम्, राजसूयः, कुरुवाजपेवः, सर्वतोमुखम्, पौण्ड रीकम्, अभिजित्, विश्वजित्, अश्वमेधनरमेधगोमेश्धाः, गवामयनाङ्गिरसामयनादि त्यानामयनविश्वसृजामयनानि सत्राणि, बृहस्पतिसवः, आङ्गिरसः, अष्टादशविधानि चयनानीलेवमनेकविधा उत्तरकतवस्ततोऽन्ये काम्यविधयश्वोपतिष्ठन्ते । तेऽप्येते संस्कारा भवन्ति । अदृष्टोत्पादनद्वारा फलसिद्धावभावात् । तदित्थमेतावानयमुक्तो दैवसंस्कारः स श्रेतो द्रष्टव्यः ॥ चात्रावधार्यते-सोमयागा द्विविधाः-आवृत्ता अनावृत्ताश्वः .। तत्रानावृत्ता