पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेद् । अनपाकृत्य मोक्षं तु सेवमानः एतत्यधः ।।' इत्यादिपुराणस्मृतिवचनेभ्यः, पञ्चसूना गृहस्थस्य चुली पेषण्युपस्करः । कण्डनी चोदकुम्भश्च बध्यते यास्तु वाहयन् ॥ तासां क्रमेण सर्वासां निष्कृत्यर्थ महात्मभिः । पञ्च कृप्ता महायज्ञाः प्रलयहं गृहमेधिनाम् ॥ अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् । होमो दैवो बलिभतो नृयज्ञोऽतिथिपूजनम् ॥’ इत्येवं मन्वादिस्मृतिवचनेभ्यश्च तथावगमात् । त एते खकर्तृका धर्मशुद्धिसंस्कारा उच्यन्ते । सोऽयमेतावान् ब्रतसंस्कारो यज्ञादिदैवसंस्कारयोग्यतासंपत्त्यर्थः । तत्र संस्कर्तृनिष्ठमधिकारितावच्छेदकं ब्राह्मणत्वादिधटितवर्णत्वघटितम्, संस्कार्यनिष्ठं तु पूर्व संस्कारसंस्कृतत्वं वा: “धृतिः क्षमा दया शौचवमनायासोऽनसूयितम् । अस्पृहत्वमक्कामत्वं ब्राह्मणानाममी गुणाः ॥’ इत्युक्तात्मगुणाष्टकवैशिष्टयं वा । तेषां पूर्वेषां संस्कारकर्मणामप्येतदुणाष्टकरूपातिशयं भावकत्वात् । विज्ञायते चैतदेषामष्टानां गुणानामपि संस्कारत्वम् । अष्टचत्वारिंशत् संस्कारानाचक्षाणेन भगवता गौतमेन चत्वारिंशत्संस्कारानाख्याय परिशेषे अष्टावात्मगुणाश्च' इति स्मरणात् संस्कारैः संस्कृतः पूर्वेरुत्तरैरपि संस्कृतः । नित्यमष्टगुणैर्युक्तो ब्राह्मणो ब्रह्मा लौकिकम् ॥ ब्राह्म पदमवाप्रोति यस्मान्न च्यवते पुनः ।’ इति शङ्कादिस्मरणाञ्च धृत्याद्यात्मगुणानां ब्राह्मणत्वप्रयोजकत्वेनाभिधानात् । अर्घ वै प्रजापतेरात्मनो धैर्यमासीदर्ध माल्यम् । यद्वैयै तत् पुरस्तात् कुरुत । यन्माल्व्यं तत् पश्चात् पयैहत । यद्वैर्ये सोमो वै सः । ततो ब्राह्मणमस्जत । तस्माद् ब्राह्मणः सर्व एव ब्रह्माभिधीरः । यन्माल्यं सुरां वै सा । ततो राजन्यम सृजत । तस्माज्यायांश्च कनीयांश्च लुषाचश्छ्रश्च सुरां पीत्वा विलालपंत आसते। माल्व्यं हि तत् । पाप्मा वै माल्यम् । तस्माद् ब्राह्मणः सुरां न पिबेत् । पाप्म नात्मानं नेत् संस्मृजा इति' । इत्येवं मैत्रायणीयश्रुत्यादिषु तत्र तत्र ब्राह्मणत्वप्रयोजकानां श्रुत्यादीनामाम्रनाथ । तदित्यमेतावानयमुक्तो ब्राह्मसंस्कारः स स्मातः इष्टव्यः । अथातः परम् ‘अझे ब्रतपते ऋतं चरिष्यामि, वायो तपते ब्रतं चरिष्यामि, आदित्य ब्रतपते ब्रतं चरिष्यामि’ इति;.'इदमहमनृताव सत्यमुपैमि ।’ इति वा ब्रतोपायनं तावत्