पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ अध्यायः ] छन्दःशास्त्रम् । १३७ जगती ।। ६ । २७ ।। अधिकारोऽयमाध्यायपरिसमाप्तेः । यदित ऊध्र्वमनुक्रमिष्यामस्तज्जगतीलयेवं वेदितव्यम् । वक्ष्यति च “तोटकं सः” (६३२), तज्जगतीपादस्य लक्षणं भवति । वंशस्था जूतों ज्रों ॥ ६ ॥ २८ ॥ यस्य पादे जगणतगणौ ( ।ऽ।. ऽऽ।) जगणरगणैौ (।1ऽl. ऽऽ ) च भवतस्तद्वत्तं वंशस्था' नाम । तत्रोदाहंरणम् जगणः रगण विशुद्ध-वंशस्थ-मुदार-वेष्टितं गुणफ्रि-यं मित्र-मुपास्ख सज्बनम् । जोलमालाच्छन्दः (१२॥ १५९१)-‘जलमाला भभमसाः सागरैर्वसुभिर्यतिः ।’ चन्द्रवत्र्मच्छन्दः (१२॥१९७९)-- चन्द्रवत्र्म गदितं तु रनभसैः’ वृत्तरन्नाकरछन्दोमञ्जर्यादिषु ललनाच्छन्दः (१२॥२०२३)--‘ललना स्याद्भतनसैश्छिन्ना खर्दूमहीधरैः ।’ सारङ्गच्छन्दः (१२२३४१)- ‘जा चारितकारसंभेअउकिठ्ठ-सारंगरूअंक सो पिंगले दिट्ट । जा ती अवीसामसंजुत्त पाएहेि णाजाणिए कांति अण्णोण्णभाएहि ।।' प्रा० पि० सू० २॥१३७ ॥ मौक्तिकदामच्छन्दः (१२॥२९२६)- चतुर्जगणं वद मौक्तिकदाम ' वृ० र० परिशिष्टे, प्रा० पि० सू० २।१३९ ॥ भामिनीच्छन्दः (१२॥३५११)—‘भामिनी स्याद्भभभात्रिभिर्यतिचतुष्टयम् । मोदकच्छन्दः (१२३८९५) -- तोडअर्छ विपरीअ विज्वसु मोदद्दछंदह णाम करिजसु चारि गणा भगणा सुपसिद्धउ पिंगल जंपउ कितिहिलुद्धउ ॥ प्रा० पि० सू० २॥१४१ ॥ तोटकच्छन्दसो विपंरीतस्थापनेन मोदकच्छन्दो जायते तरलनयनीच्छन्दः (१२४०९६)- णगण णगण कर चउगुण सुकइ कमलमुहि प्‘ण भण । तरलणआणि सब करु लहु सब गुरु जवउ णवरि कहु ।’ प्रा० पि० सू० २॥१४३ ।। १. उक्तद्वादशाक्षरप्रस्तारस्य त्रिशतद्वयशीत्यधिकैकसहस्रतमो भेदो (१३८२) ‘वै - शस्था’ इति नान्ना ख्यातः । छन्दोमञ्जरीप्रमृतिषु च अन्थध्वेतद्वत्तं 'वंशस्थविलम् इनि नान्ना प्रसिद्धम् । अत्र ‘गुहास्यत्र्ऋतुभिर्यति ।’ मं० म० ।