पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६ काव्यमाला । पादश्चतुर्भागः । ४ । १० ।। बतुर्भागश्चतुर्विंशत्यक्षराया गायत्र्याश्चतुर्थो भागः पादसंज्ञां लभते । गायत्र्याः पृडक्षरपादः । एवमुष्णिगादिष्वपि द्रष्टव्यम् । समवृत्तविपयमेतत् । यथावृत्तसमाप्तिर्वा । ४ । ११ ।। यस्य वृत्तस्य यादृशैः पादैन्यूनाक्षरैरधिकाक्षरैर्वा समाप्तिश्यते, तस्य तादृशा एव प्रादा ग्रहीतव्याः । वाशब्दो व्यवस्थितविभाषा । उद्रतादिषु विषमवृत्तेषु चतुर्भागा तिक्रमेणापि पादव्यवस्थादर्शनात् । आदौ तावद्रणच्छन्दो मात्राछन्दस्ततः परम् । तृतीयमक्षरच्छन्दश्छन्दत्रेधा तु लौकिकम् ॥ आर्याद्युद्रीतिपर्यन्तं गणच्छन्दः समीरितम् वैताल्यादिचूलिश्रान्तं मात्राछन्दः प्रकीर्तितम् समान्याद्युत्कृतेिं यावदक्षरच्छन्द एव च ॥ तत्रादौ तावदार्यालक्षणमिद्भार्थ गणसंज्ञां करोति लः समुद्रा गणः । ४ । १२ ।। ल इलेखेकमात्रिकस्याक्षरस्य ग्रहणम् । समुद्र। इति चतु:संख्योपलक्षणार्थम् । चतुर्णा लकाराणां ‘गणः’ इत्यषा संज्ञा विधीयते ॥ गौ गन्तमध्यादिन्लैश्च । ४ । १३ ।। अनेन गणस्य विन्यासभेदं दर्शयति । स हि गणः कदाचिदुरुद्वयेन (ऽऽ) भवति, कदा चिदन्तेनैकेन गुरुणा (॥ऽ), कदाचिन्मध्यमेन (s), कदाचिदावन (ऽl), कदाचिचतु र्भिर्लघुभिः (॥) ! षष्ठस्य भेदस्याभावाद् विस्पष्टार्थमिदं सूत्रम् । अन्तमध्यादिरिति प्रथमं द्वन्द्वसमासं कृत्वा पश्चाद्वकारेण बहुव्रीहिः । द्वन्द्वात् परो यः श्रूयते लभतेऽसौ प्रत्येकाभि १. इदं च लक्षणं प्रायिकत्वात् । आर्यासु अर्धसमविषमेषु च न्यूनाधिकाक्षरदर्शनात् । विपुलाचूलिकादिषु विपुलायां यतिमात्रं निषिद्धं त्रिषु गणेषु; ‘चूलिकार्धमेकोनत्रिंशत् (छं० शा० ४५२) इत्यर्धस्य लक्षणकथनेऽपि एकाक्षरन्यूनाधिकभावेन पादः कल्पनीयः इति तरुणवाचस्पतेिः । पादलक्षणं मन्दारमरन्दे-छन्दसा प्रथितः शब्दः पादः इत्यभिधीयते ।' (१॥९) इति । इदमत्रावगन्तव्यम्-एकद्वयादिवर्णघटितपादचतुष्टया त्मकवृत्ते वतुः श्रोतुर्वा पादत्वेन तात्पर्ये सति पाद एव, वृत्तत्वेन तात्पर्ये सति वृत्तमेव । एतदेकाक्षरमारभ्य चतुर्विंशतिवर्णपर्यन्तवर्णघटितवाक्य एव । पञ्चविंशतिषडिंशतिवर्णा त्मकवाक्ये पादत्वमेव । तत ऊध्र्वं तु न पादत्वम् इति तद्वयाख्यायाम् ।. २. ‘गायत्र्या वसवः’ (पि० सू० ३३) इति यत्तृतीयाध्याये दर्शितं, तद्वैदिकविषयमात्रम् । तेन लौकिकच्छन्दसां त्रिपञ्चषट्पदता निषिद्धा । यतो . लौकिकविषमवृत्तेऽपि लौकिकविषम एव भविष्यति न तु वैदिकोक्तः, किं तु चतुष्पदत्वं तत्राप्यक्षतमेव ज्ञेयम् ।