पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ अध्यायः ] छन्दःशास्त्रम् । संवन्धम् । द्वौ गकारौ चत्वारो लघवो भवन्ति, स एको (ऽऽ) गणः । गकारोऽन्ते यस्य स गन्तो द्वितीयो (॥ऽ) गणः । गकारो मध्ये यस्य स गमध्यस्तृतीयो (ऽ) गणः । गकार आदौ यस्यासौ गादिश्रतुर्थो (ऽ॥) गणः । नकारलकारौ मिलितौ चत्वारो लघवी भवन्ति, स पञ्चमो (॥) गणः ॥ एवं गणेषु सिद्धेष्विदानीमार्यालक्षणं करोत खरा अर्ध चार्यार्धम् । ४ । १४ गणग्रहणमनुवर्तते । खरा इति सप्तानां संज्ञा । यत्र प्रस्तारे गणाः सप्त भवन्ति , अर्ध च गेणस्य, तदार्यार्थ निष्पद्यते । द्वितीयमप्यर्ध तादृशमेव । समप्रविभागेऽर्धशव्दः । यद्येवनर्धशब्दस्य ‘अर्ध नपुंसकम्’ (पा० सू० २।२।२) इत्यनेनैकदेशिसमासे सति पूर्व निपातः प्राप्तोति, यथा-अर्धाढकम्, अर्धपलम्, अर्धखारीति । नैष दोषः; सत्यपि समप्रविभागत्वे संबन्धमात्रस्यात्र विवक्षितत्वात् । समप्रविभागस्याप्यर्धशव्दस्यैकदेशिः समासव्यभिचारदशेनात् । यथा-तुलार्धन गां क्रीणाति । पणाधनकाताम्बूलचवणादुवताननाः । अनभ्यासाद्रललाला यान्येते वारयात्रिकाः ।। १. आर्यायाः प्रथमं लक्षणप्रयोजनमुक्तं वृत्तमणिकोशे घटिकासहस्रयुग्भिः शिवो जगौ पञ्चभिर्मुखैरार्याम् त्र्यब्दान् द्वादश दिवसान् षोडश घटिकाश्च निर्निद्रः । आर्याद्वोधः कठिनो ज्ञातुं व्यक्तानि वर्णवृत्तानि । आदौ सलक्षणम तानि च परतः सलक्षणं बूमः ॥' (वि० ३ श्लो० १-२) ‘पढमं वारहमत्ता वीए अट्टादहेहिं संजुत्ता । जह पढमं तह. तीअं दहपञ्चविहूसिआ गाहा ।।' इति प्रा० पि० सू० १४९. सब्बाए गाहाए सत्तावण्णाइँ होन्ति मत्ताई । पुब्बद्धम्मि अ तीसा सत्ताईसा परद्धम्मि ॥' इति प्रा० पि० १५१. गाथा’ इति नामान्तरमार्यायाः प्राकृतपिङ्गले. २. गुरुरूपो द्विमात्र इत्यर्थः. ३. इन् सूत्रं श्रीमता भगवता पतञ्जलिना प्रत्याख्यातम् 'परवलिङ्गं द्वन्द्वतत्पुरुषयोः' (पा० सू २॥४॥२६) इति सूत्रे भाष्ये. तथा च भाष्यम्-‘एकदेशिसमासो नारप्स्यते । कथगर्धपि प्पलीति? 1 समानाधिकरणसमासो भविष्यति, अर्ध च सा पिप्पली चार्धपिप्पलीति । : सिध्यति, परत्वात्षष्ठीसमासः प्राम्रोति । अद्य पुनरयमेकदेशसमास आरभ्यमाणः षष्ठी समासं बाधते । इष्यते च षष्ठीसमासोऽपि । तद्यथा-अपूपार्ध मया भक्षितम् । प्रामा मया लब्धमिति । एवं पिप्पल्यर्धमिति भवितव्यम् ।' इति. अत एव ‘प्रेम्णा शरीरार्धहर