पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ अध्यायः ] छन्दःशास्त्रम् । ४५ यथार्वशत् (३) । स ई महि कर्म कर्तवे महामुरुं (४) सैनं सश्चदेवो देवं (५) मन्माद सत्यमिन्द्र सत्य ईन्दुः (६) ॥' (ऋग्वेदे-अ० २ अ० ६ व० २८ मं० १ ) षष्ठ्यक्षरमात साकं जातः ऋतुना साकमोजसा ववक्षिथ (?) साकं वृद्धो वीर्येः सासहिर्मुधो विचर्षणिः (२) । दाता राधः स्नुवते काम्यं वसु (३) सै न सश्चद्देवो देवं (४) सत्य मिन्द्रं सत्य इन्दुः (५) ॥' (ऋग्वेदे-अ० २ ० ६ व० २८ मं० ३) षट्पञ्चाशदक्षरा शावकरी । यथा 'प्रौष्वसै पुरोरथ (१) मिन्द्राय शूषमचैत (२) । अभीके चिटु लोककृत् (३) सङ्गे समत्सु वृत्रहा (४) ऽस्माकं बोधि चोदिता (५) नभन्तामन्यकेषाम् (६) ज्याका अधिधन्वसु (७)' (ऋग्वेदेमं० ) -अ० ८ अ० ७ व० २१ १ द्विपञ्चाशदक्षरमतिजगती । यथा स भ्रातरं वरुणमझ आर्ववृत्स्व (१) देवाँ अच्छा सुमती यज्ञवनसं (२) ज्येष्टं यज्ञर्वनसम् (३) । तावनमादित्यं चर्षणीष्टतं (४) राजानं चर्षणीष्टर्तम् (५) ।’ (ऋग्वेदे-अ० ३ अ० ४ व० ११ मं० २ ) अष्टाचत्वारिंशदक्षरा जगती । यथा इन्द्रं मित्रं वरुणमझिमूतये (१) मारुतं शध अदितिं हवामहे (२) । रथं न दुर्गाद्वसवः सुदानवो (३) विश्वस्मान्नेो अंहंसो निष्पिंपर्तन (४) ॥ ( ऋग्वेदे-अ० १ अ० ७ व २४ मं० १ ) अथ लौकिकम् । ४ । ८ ।। अधिकारोऽयमाशास्रपरिसमाप्तः । पूर्वेषां छन्दसां वैदिकत्वमेव । इतः प्रभृत्या यदीनां चूलिकापर्यन्तानां लौकिकत्वमेव । सैमान्यादीनामुत्कृतिपर्यन्तानां वैदिकत्वं लौकिकत्वं च । अत्र वैदिकच्छन्दसां प्रस्तावे प्रसङ्गाद्वेदवदनादिमुनिपागम्पर्यागतं स्मृतिपुराणेतिहासादिषु दृश्यमानमार्यादिदण्डकपर्यन्तं लौकिकच्छन्दोजातमधिक्रियते । तन्मूलत्वात्काव्यस्य । काव्यं च कीर्तिरूपत्वादानन्दहेतुत्वाञ्च पुरुषार्थः ।ः आत्रैष्ट्रभाच यद्भार्षम् । ४ । ९ ॥ आङभिविधौ । त्रिषुबेव त्रैष्टुभम् । खार्थे तद्धितः । गायत्र्यादित्रिष्टुप्पर्यन्तं यदार्ष छन्दोजातं वैदिके व्याख्यातं, लौकिके च तत्तथैव द्रष्टव्यम् । किं तदार्धम्? चतुशिल्यक्षरा गायत्री, अष्टाविंशत्यक्षरोष्णिक्, द्वात्रिंशदक्षराप्नुष्टम्, षड्त्रिंशदक्षरा बृहती, चत्वा रिंशदक्षरा पङ्किः, चतुश्चत्वारिंशदक्षरा त्रिष्टुप् । चः समुच्चये ॥ १. २. ३. एषु व्यूहाच्यूनता परिहार्या . ४. ‘ग्लिति समानी' (पि० सू० ५॥६) इति सूत्रबोधितं छन्दः. ५. ‘आर्षमा त्रैष्टुभात्स्मृतम् । त्रिष्टुप्पङ्किश्च बृहती अनुष्टुवुष्णि गीरितम् ॥ गायत्री स्यात्सुप्रतिष्ठा प्रतिष्ठा मध्यथा सह । अत्युक्तोक्ता आदितश्च एकैकाक्ष रवर्जित्म्. ॥' (३३१॥३-४) इत्याझेये ।