(12 ) तत्रैवं व्यक्तिभावप्रधानं दिग्देशकालसंविन्संख्यारूपमवच्छेदं परिच्छेदसीमामयदाभि विविनियतिनीतिरीतिव्यवस्थामिति मानापरपर्ययं मानाभिधायिना माशब्देन, आकृ तिभावप्रधानमनुत्वमहत्त्वहखन्वदीर्घवनियामकसंनिवेशरूपमवच्छेदं प्रतिष्ठायत्तनाशा = परिमाणप्रमाणापरपर्यायं प्रमाणाभिधायेिन प्रमाशब्देन, जातिभावप्रधानं च समा नद्रव्यगुणकर्मरूपमवच्छेदं साधम्र्थसामान्यसादृश्यरसारूप्यतुलिनकप्रतिमितिप्रतिमानापर. पर्यायं प्रतिमानाभिपायिना प्रतिमाशब्देनोलिख्य छन्दस्त्वं विधीयते । मा =छन्द प्रमा च्छन्दः, प्रतिमा च्छन्द इति । दृश्यते च अस्तभ्राद् द्यामृषभो अन्तरिक्षममिमीत वरिमाणं पृथिव्या अासीदद् विश्वा भुवनानि सम्राड् विश्वत्तानि वरुणम्य त्रनानेि ।। १ ।। ‘गायत्रेण प्रतिमिमीते अर्कमर्केण साम त्रैष्टुभेन वाकम् । वाकेन वाकं द्विपदा चतुष्पदाक्षरेण मिमते सप्त त्राणी ॥ २ ॥ (ऋ. २ अ. ३ अ. १८ व. ) इल्यादिषु दैशिकसांख्यानिकमर्यादाभिप्रायकत्वं माशब्दस्य, यस्य भूमिः प्रमा अन्तरिक्षमुतोदरम् । दिवं यश्चक्रे मूर्धानं तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥’ (अथर्वमं.) इत्यादिषु प्रतिष्ठाभिप्रायकत्वं प्रमाशब्दस्य, संवत्सरप्रतिमा वै द्वादश रात्रयः ॥' ( ब्राह्मणम् ) 'द्वादश वै रात्रयः संवत्सरस्य प्रतिमा ॥’ (ब्राह्मणम् ) इलयादिषु तुलितकाभिप्रायकत्वं प्रतिमाशब्दस्य । तथा च मा-प्रमा-प्रतिमाशब्देरुलिखि तस्य त्रिविधस्याप्यवच्छेदस्य वस्तुखरूपसंवरकत्वेनाभिप्रेतस्य छन्दस्त्वं वचनतः मिदं भवति । ननु प्रमाप्रतिमयोरपि छन्दस्वेऽभ्युपगम्यमाने ‘कासीतू प्रमा प्रतिमा किं निदानमाज्यं किमासीत परिधिः क आसीत् । छन्दः क्रिमासीत् प्रउगं किमुक्यं यद्देवा देवमयजन्त विश्धे ।।' (ऋ. ८ अ. ७ अ. १८ व. } इतेि मन्त्रे प्रमाप्रतिमयोश्छन्दःपार्थक्येनोपादानं विरुध्यत इति चेत्तन्न । “तस्माद् यज्ञात् सर्वहुत ऋचः सामानि जज्ञिरे छन्दांसि जज्ञिरे तस्माद्यजुस्तस्मादजायत । आ:िन्या विश्रे मरुतश्च विश्वे देवाश्च विश्व द्वन्द्र असिरश्विना तुष्टुवाना यूयं पात स्वस्तिभिः गदा न ।
पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१५
दिखावट