पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नकत्वेन वा छन्दस्त्वमिष्यते; अपि तु खरूपसंवरवन्वेनेति पदार्थतावच्छेदकभेदादौ ननुः‘मा च्छन्दः, प्रमा च्छन्दः, प्रतिमा च्छन्दः’, ‘इयं वै मा, अन्तांरक्ष प्रमा, असां प्रतिमा, इमानेव लोकानुपधत्ते’ इत्यमिचितिमञ्श्रवणाछोकत्रयाभिप्रायतया परिभाषितैर्मा प्रमाप्रतिमाशब्दैर्मनाद्यवच्छेदग्रहणमयुक्तसिति चेन्न । चैत्रमैत्रौ नृपतेर्हस्तावितिवत्तपां गौणशब्दत्वात् । अन्यथा -‘अथ जुहूम्, अथोपमृतम्, अथ धुवाम् । असौ वै जुट्टः, अन्तरिक्षमपभ्रत्, पृथिवी धुवा । इमे वै लोकाः खुचः । वृष्टिः संमार्जनानि । वृष्टिर्वा दमॉलोकाननुपूर्वं कृल्पयतेि । तं ततः कृप्ताः समेधन्ते ।' (तै. ब्रा. ३ का. ३ प्र. १ अ.) इत्यादिभिरुपचारविशेषैः त्रुगादयोऽपि खार्थादपभ्रश्येरन् । एवम् मा छन्दः, तत्पृथिवी, अन्निर्देवता ॥ १ ॥ प्रमा छन्दः, तदन्तरिक्षम्, वातो देवता ॥ २ ॥ प्रतिमा छन्दः, तद् द्यौः, सूर्यो देवता ॥ ३ ॥ अस्त्रीवि छन्दः, तद्दिशः, सोमो देवता ॥ ४ ॥ विराट् छन्दः, तद्वाक्, वरुणो देवता ॥ ५ ॥ गायत्री छन्दः, तदजा, बृहस्पतिर्देवता ।। ६ ।। त्रिष्टुप् छन्दः, तद्धिरण्यम्, इन्द्रो देवता ॥ ७ ॥ जगती छन्दः, तद्रौः, प्रजापतिर्देवता ॥ ८ ॥ अनुष्टुप् छन्दः, तद्वायुः, मित्रा देवता ।। ९ ।। उष्णिहा छन्दः, तच्चक्षुः, पूषा देवता ॥ १० ॥ पङ्किश्छन्दः, तत्कृषिः, पर्जन्यो देवता ॥ ११ ॥ बृहती छन्दः, तदश्वः, परमेष्ठी दक्वता ॥ १२ ॥' इत्यापस्तम्बश्रौत (१६ । २८ । १) सूत्रोक्त प्रकरणविशेषे माप्रमादिवद् विराङ्गाय त्र्यादीनामपि वागजाद्यभिप्रायतया प्रयोगात् समानन्यायात् प्रकृतार्थपरत्वं व्याहन्येत । अतः एव “सावित्रैरभ्रिमादत्ते प्रसूत्यै । चतुर्भिरादत्त, चन्वारि वै छन्दांसि, छन्दोभि रेवादत्त । अथो ब्रह्म वै छन्दांसि । ब्रह्मणैवादत्ते । इयं वै गायत्री । अन्तरिक्षं त्रिष्टुप् , द्यौर्जगती, दिशोऽनुष्टुप् । सवितृप्रसूतो वा एतदेभ्यो लोकेभ्यश्छन्दो भिर्दिग्भ्यश्वामिं संभरलि'॥” इलयन्निचितिप्रकरणान्नाद् गायत्रोत्रिष्वजगत्यनु शुभां लोकदिक्परतया प्रतिपादितानामपेि नैकान्ततः स्वार्थापलापः प्रसज्यते । अत एव च “इयं वै मा-अन्तरिक्षं प्रमा