पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • ाग्निां तुर्वशं यदु परवतं (५) उप्रादेवं हवामहे (२) ।

आझिर्नेयज्ञदवास्वं बृहद्रथं (३) तुर्विितं दस्यवे सहः (४) ॥ (ऽग्वेदे-अ० १ अ० ३ व० ११ मं० ३) विपरीतौ च । ३ । ३९ ।। यदा तावेव पादौ विपरीतौ भवतः; तदापि सतःपङ्किरेव । अयमर्थः--प्रथमतृतीयः पादौ गायत्रौ, द्वितीयचतुर्थे: [च ] जागतैौ तदापि सत:पङ्किरेव भवति । यथा--

  • य ऋत्ष्वः श्रावयत्संस्वा (१) विश्चेत्स वेद जनिमा पुरुष्टतः (२) ।

तं विश्वे मार्नुषां युगे (३) न्दै हवन्ते तविषं युतसुंचः (४) ।। ( ऋरवेदे-अ० ६ अ० ४ व० ३ i० २) प्रैस्तारपङ्किः पुरतः । ३ । ४० ।। यदा जागतौ पादौ पूर्वी भवतः, गायत्रैौ च परतः, तदा प्रस्तारपङ्किः’ नाम । यथा भद्रमिद्भद्रा कृणवत्सरस्वत्य (१) कंवारी चेतति वाजिनीवती (२) । गुणाना जमदवित् (३) स्नुवाना च वसिष्ठवत् (४) ।’ (ऋग्वेदे-अ० ५ अ० ६ व० २० मं० ३) पङ्किजगतौ गायत्रौ च' (पि० सू० ३॥३७) इत्यनेन गतार्थमिदं संज्ञाविशेषज्ञाप नार्थ पुनरुच्यते ॥ आस्तारपङ्किः परतः । ३ । ४१ ।। यदा जागतौ पादौ परौ भवतः, गायत्रौ च पूर्वी, तदा ‘आस्तारपङ्किः' नाम । यथा ‘भद्रं जो अपि वातय (१) मनो दक्षमुत कर्तुम् (२) । अधा ते सख्ये अन्धसो वि वो मदे (३) रणन् गावो न यवसे विवंक्षसे (४) ॥” (ऋग्वेदे-अ० ७ अ० ७ व० ११ मं० १) विष्टारपङ्किरन्तः ॥ ३ ॥ ४२ ॥ यदा जागतौ पादौ मध्ये भवतः. आद्यन्तयोश्च गायत्रौ, तदा ‘विष्टारपङ्किः’ नाम

  • अझे तव श्रवो वयो (१) महिँ भ्राजन्ते अर्चये विभावसो (२) ।

वृद्धानो शर्वसा वाजमुक्थ्यं५ (३) दधासि दाशुषे कवे (४) ॥' (ऋग्वेदे-अ० ८ अ० ७ व० २८ मं० १) १. सायणभाष्ये तु सतोबृहती नाम । २. लाघवाय ‘युजौ चेति वक्तव्ये गौरवाङ्गीकारो विपरीते'ति संज्ञापीति सूचनार्थः । तथा चोक्तं शौनकेन-‘विपरीता विपर्यये ।’ { प्रा० शा० १६५४) इति । ३. कलिकातामुद्रितपुस्तके प्रथममास्तारपङ्गिः । तद्यु कम्, ‘प्रास्तारपङ्किः पुरतः पश्चादास्तारपङ्किका ।'(३३०॥१२) इत्यमिपुराणविरोधातू, ! सर्वानुक्रमविरोधाञ्च ।