पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ अध्यायः ] छन्दःशास्रम् । ॥ ३ ॥ ४३ ।। यदा तावेव जागतौ पादौ बहिर्भवतः, मध्ये च गायत्रौ, तदा ‘संस्तारपङ्किः’ नाम छन्दः । यथ पितुभृतो न तन्तुमित्सुदार्नवः (१) प्रतिं दध्मो यजमसेि (२) । उषा श्रुप स्वसुस्तमः (३) संवर्तयति वर्तनि सुजात (४) ।’ ऋग्वेदे-अ० ८ अ० ८ व० ३० मं० ३,४ अक्षरपङ्किः पञ्चकाश्चत्वारः । ३ । ४४ ।। पञ्चाक्षरैश्चतुर्भिः पादैः ‘अक्षरपङ्किः’ नाम छन्दः । ननु चत्वारिंशदक्षरा पङ्किश्छन्दः तत्कथं ‘पञ्चकाश्चत्वारः’ इत्युच्यते ! तत्रोत्तरम्-द्वावप्यल्पशः’ (पेि० सू० ३४५) इत्यस्मात् सेंहावलोकितन्यायेनाल्पग्रहणमनुवर्तते । तेन पङ्करल्पत्वं विशेषात्प्रतिपादितं भवतेि । यथा *पैश्धा न तायु (१) गुहा चर्तन्तं (२) नमो युजानं (३) नमो वहन्तम् (४) ॥ (ऋग्वेदे-अ० १ अ० ५ व० ९ मं० १) द्वावप्यल्पशः ॥ ३ ॥ ४५ ॥ पञ्चग्रहणमनुवर्तते । पञ्चाक्षराभ्यां पादाभ्यामल्पशः पङ्किर्नाम छन्दो भवति, कवि देव वेदे न सर्वत्र ॥ यथा ‘सदो विश्वायुः (१) शर्म सप्रथाः ।' (तै० आ० ४।११) पदपङ्किः पञ्च । ३ । ४६ ।। पञ्चकाः' इत्यनुवर्तते । यदा पश्चाक्षराः पञ्च पादा भवन्ति, तदा ‘पदपङ्गिः’ नाम छन्दः । यथा ‘धृतं न पूतं (१) तनूरेपाः (२) शुचि हिरण्यम् (३) । तत्ते रुक्मो न (४) रोचत स्वधावः (५) ।॥ ' (ऋग्वेदे-अ० ३ अ० ५ व० १० मं० ६) चतुष्कषद्वै त्रयश्च । ३ । ४७ ।। १. द्वपदा िवराट् कात्यायनमते त्वियं दशाक्षरपादद्वयवती । शैनकेन पक्षद्वय मयुक्तम्—‘विराजो द्विपदाः केचित्सर्वा आहुश्चतुष्पदाः । कृत्वा पञ्चाक्षरान् पादांस्तांस्त थाक्षरपङ्कयः ॥' (ऋ० प्रा० शा० १७५०) इति । साङ्खयायनोऽप्यन्-उत्तरस्या दशाक्षरौ, तामक्षरपङ्किरित्यप्याचक्षते ।’ (श्रौ० सू० ७॥२७) इति । २. भुरियूपत्वादेकाक्षराधिक्यम् । कात्यायनेन तु ‘पञ्चक्राश्चन्वारः ष्ट :’ (सर्वा ४1२) इत्येव सूत्रितम्