पृष्ठम्:चोरचत्वारिंशीकथा.djvu/५३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

५०

सा स्वगतं बभाषे- अत्र नास्त्यणीयानपि विस्मयस्यावकाशः, यदमुना दुरात्मना मत्स्वामिनो मन्दिरे लवणं न भोक्तव्यम् । यस्य हि लवणं भुज्यते तत्प्राणग्रहणमतीवाधर्म्यम् । उक्तं हि--

  भुज्यते यस्य लवणं तद्धिंसा गुरु पातकम् ।

इदमेव वचनं स्मृत्वा मत्स्वामित्रधकामेनानेन लवणभक्षणं वर्ज्यते । अहं पुनरेनं ध्वस्तमनोरथं विधास्ये ।

 ४. अथ मारजनिर्मोजनशालां प्रति भोज्यजातवहनेऽप्यब्दपालस्य साहायकमनुतष्ठौ । तत्स्वामी प्राघूर्णकेन सह यावद्भुञ्जानः स्थितः, तावत्सा स्वामिनं चोराततायिनस्तस्माद्रक्षितुं कमपि निपुणमुपायं सर्वात्मना चिन्त- यति स्म । अथ भोजनादूर्ध्वे सा गृहपतेरभ्यागतस्य च पुरः कानिचि त्फलानि मद्यविशेपांश्व स्थापयामास । ततोऽब्दपालेन सह भोक्तुं किल पाकागारं प्राविशत् ।

 ५. तदा कुजहर्पणः स्वगतमवादीत्। अयं प्राप्तः स चिरकाङ्क्षितः। समयः । अहमिमं पितरमेतं च तत्पुत्रं, उभावपि मद्यं प्रकामं पाययित्वा विचेतनौ विधास्यामि । तथाविधं च जरठमिमं लीलया परलोकं विसर्जयिष्यामि । एवं कुर्वन्तं दस्युचक्रवर्तिनं मां निवारयितुं का शक्ति- रमुष्य क्षीरकण्ठस्य बालस्य ? ततश्च परिवेष्टरि दासे पाचिकायां च दास्यां महानसे भोजनव्यप्रयोः सुप्तयोर्वा सतोः, मया यथापूर्वं पलायनेनात्मा रक्षितुं शक्यः ।

 ६. किं तु, एतत्तस्य चिकीर्षितं मारजन्या तर्कितपूर्वमेव । अतस्तस्य । निर्वहणं व्याहन्तुं सोघता बभूव ।