पृष्ठम्:चोरचत्वारिंशीकथा.djvu/३८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

३५


 ९. ततोऽन्येद्युः प्रातरेव, पुरुषगर्भान्सप्तत्रिंशतं कुम्भान्, तैलगर्भं चाष्टत्रिंशं, नवदशानामश्वतराणां पृष्ठानि, प्रत्यश्वतरं द्वाविति, आरोपयांचकार । ततः स चोरमुख्यो नियन्ता नाम भूत्वा, साश्वतरो नगरमुद्दिश्य प्रस्थितः । तत्र च यथासंकल्पं तमःप्रसरवेलायां प्राप । तानश्वतरान्नगरे मार्गान्मार्गे प्रेरयन्, सोऽलिपर्वणो गृहमाससाद । स तु सद्यःकृतभोजन उपद्वारदेशमेव धूमवर्त्तिं परिपिबन्नतिष्ठत् ।

 १०. स चोराधिपो गृहस्याग्रेऽश्वतरान्स्थापयित्वा, अलिपर्वाणमुपस्थायाभ्यर्थयामास। भद्र, दूरदेशान्मया प्रभूतं तैलं चर्मपात्रधृतं विक्रयार्थमानीतम् । एतच्चापणे श्वो विक्रेतुमिच्छामि । अस्यां तु प्रदोषवेलायां कुत्र मया स्थेयम्, क्व वा चर्मपात्राणि स्थापनीयानि—इति निश्चेतुं न पारयामि । यतः, आगन्तुकत्वात्कमपि पौरं नाहं परिचिनोमि । अतः, अत्र ममावस्थानं नातिपीडाकरं मन्यसे चेत्, इमां निशामिह वसन्तं मां सोढुमर्हसि । अस्मिंस्तव गृहाङ्गणे सुखेन निद्रास्यामि । प्रत्यूषस्येव, अश्वतरान्विपणिं नेष्यामि । तत्र चान्यवणिग्भ्यः पूर्वमेव तैलमवतारयिष्यामि । येन मया तत्तैलं भूरिलाभं विक्रेतुं शक्यम् । अतः, निशावासमुद्दिश्य मदीयमभ्यर्थितं ग्रहीतुमर्हसि । येन भृशं त्वदुपकृतो भवेयम् ।

 ११. असौ चोराध्यक्षोऽलिपर्वणा कानने विचरन्वीक्षितः, ब्रुवंश्चाकर्णितः । एवं सत्यपि वणिग्वेषधारिणं तं स न वेषतो न वा शब्दतोऽप्यभिजज्ञौ । अतोऽमुं मायावणिजमब्रवीत्—। एतां रात्रिमत्र प्राङ्गणे तैलभाण्डानि सुखं स्थापयेः। त्वं तु गृहाभ्यन्तरे तिष्ठेः। अतिथिसत्कारो हि धर्म एव गृहस्थस्य । किंच भवान्सूर्यास्तमवेलायां प्राप्तोऽतिथिः । येन मे विशेषतः सत्कार्यः । उक्तं हि—