पृष्ठम्:चोरचत्वारिंशीकथा.djvu/३३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

३०


अष्टमो भागः

यत्नस्य वैफल्यम् ।

  शूरः शूरतरं प्राप्य बुद्धिमान्बुद्धिमत्तरम् ।
  पटुश्चापि पटीयांसं न सिद्धिं प्राप्तुमर्हति ॥ २७ ॥

 १. चोरचर्मकारयोः प्रस्थानात् समनन्तरमेव, किंचित् कार्यमुद्दिश्य मारजनिर्मन्दिरान्निर्जगाम । अथ निवृत्ता सा द्वारि त्रिशूलचिह्नं निर्मितं प्रेक्ष्य तन्निपुणं निरूपयामास । चिन्तयामास च—। चिह्नमिदं किमावेदयति ?— इति तर्कयन्या मनो मे भयविस्मयवशं जायते । मत्स्वामिनोऽशुभं ध्यायता केनापि नरेण, तं वा विडम्बयितुकामेन बालेन, चिह्नमिदं विहितं स्यात् । यथा तथा वा भवतु । मया पुनरशुभमेवोत्पश्यन्त्या तथा वर्तितव्यम्, यथा स्वामिनो मे न किंचिदनिष्टमस्मादुत्पद्येत ।

 २. एवं विचार्य सापि गैरिकखण्डमेकमाहरत् । तेन च तद्गृहस्य पार्श्वयोः कतिपयगृहद्वारेषु तादृशमेव त्रिशूलचिह्नं लिलेख । किंतु तद्वृत्तं न स्वामिने न वा स्वामिन्यै लेशतोऽपि निवेदयामास । अनेन समयेन स चोरो वनगतैर्वयस्यैः समियाय । तेभ्यश्च वर्णयामास—। कियती सिद्धिस्तेनासादिता, कथं च स तमेवैकं पुरुषं प्रथममेव भाग्यतो ददर्श, यस्तेन जिज्ञासितं रहस्यमाख्यातुं समर्थ आसीत् ।

 ३. तत्कथितं वृत्तमाकर्ण्य ते सुतरां प्रीताः । तेषां परिवृढश्च तस्यान्वेषणनैपुणं प्रशशंस । अनुयायिनां च संमुखीभूयाभाषत—। भो वयस्याः, सर्वैरेवास्माभिः सुसंनद्धैरविलम्बितं प्रस्थातव्यम् । किंत्वस्माभिः, द्विशस्त्रिशो वा, विविधैर्वर्त्मभिः पुरं प्रवेष्टव्यम् । मा वयं केनापि चोरा इति शङ्कितव्याः।