पृष्ठम्:चोरचत्वारिंशीकथा.djvu/३४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

३१


प्रवेशात्समनन्तरमेव सर्वैरपि युष्माभिः प्रधानचत्वरे समागन्तव्यम् । अस्मिन्नन्तरे शुभवृत्तस्याहारकेणानेन सहचरेण सार्धं नगरं प्रविश्य तद्गेहं द्रक्ष्यामि । अनन्तरकरणीयं च निश्चेष्यामि ।

 ४. एष विधि:——'प्रशस्यतरः'—इति सर्वैरप्यभिनन्दितः । अचिरेणैव ते गमनोद्यता बभूवुः । अथ यथासंकल्पं द्विशस्त्रिशो वा विभक्ताः प्रथमगणादनन्तरं द्वित्रैः क्षणैर्द्वितीयो गणः, ततश्च तावतैव समयेन तृतीयः, ततोऽपि तथैव चतुर्थः, एवं क्रमेण प्रस्थाय सर्वेपि ते विभिन्नैर्वर्त्ममिर्विभिन्नकालं नगरं प्राविशन् । येन जनानां शङ्काविषयतां नापन्नाः । अथ नेता तेन वार्त्ताहरेण सह तां गृहवीथिमाससाद, यत्रालिपर्वणो गेहमवर्तत । अथ तौ मारजन्या त्रिशूलेनाङ्कितद्वाराणां गृहाणां प्रान्तगतमेकं प्राप्तौ । मदङ्कितमेवेदम्—इति भ्रान्त्या मत्वा दूतः सद्म तन्निर्दिश्य नायकं स्वैरं बभाषे—। इदं तद्गेहमिति।

 ५. किन्तु तद्गृहस्य पुरस्तौ न व्यलम्बेताम्—। नावां जनस्य शङ्काभाजनं भवेव—इति । अथ किंचित्पुरो गत्वा, अनन्तरे गृहे तदेव लक्ष्म लक्षयित्वा नायको दूतमप्राक्षीत्—। भद्र, कतरत्तद्गृहम् ? एतद्वा पूर्वं वा ? इति । स तु तद्गृहद्वयं तुल्याङ्कं प्रेक्ष्य विस्मयं जगाम । भूयश्च पुरो गत्वा, अनन्तरं गेहम्, तस्याप्यनन्तराणि कानिचित्, ततोऽपराण्यपि कतिचित्, तदेकचिह्नचिह्नितानि निरूपयामास । बलवद्विस्मयाक्रान्तहृदयश्च किंवक्त, व्यतामूढः संजातः ।

 ६. अथासौ नायकं सशपथं प्रोवाच—। मयैकस्मिन्नेव गेहे चिह्नं निर्मितम् । शेषेषु तु गृहेषु तत्तुल्यं चिह्नं केन विहितम्—इति न जाने । चिह्नानां च सर्वथा सदृशत्वान्निर्मितं चिह्नमेव नालमस्मि ज्ञातुम् ।