पृष्ठम्:चोरचत्वारिंशीकथा.djvu/३२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

२९


किमपि नासीत् । अथ किंचिदन्तरं गत्वा मुष्टवाह उवाच । एतदेव तत्स्थानम्, यस्मिन्नितोमुखस्य मम लोचने वसनपिहिते विहिते । अथ स चोरः, तत्क्षणं स्वकरवस्त्रमादाय, तेन चर्मजीविनो नयने बबन्ध । एवमन्धीकृतं तं स स्वहस्तेनादाय निनाय । चर्मकारोऽपि चोरस्याज्ञातमार्गत्वात्तस्य मार्गमुपदिदेश । एवं पर्यायेण परस्परप्रेरितौ तौ किंचिदन्तरमाक्रामताम् । यावत्स चार्मिकः स्थितः ।

 १५. स्थित्वा च सोऽवादीत्—। नाहमतः परतरं गतः—इति । एतच्च तदुक्तं यथार्थमेवासीत् । तदानीं हि स तस्यैव गृहस्य पुरः प्राप्तः, यत्र संप्रति सोऽलिपर्वा पुनर्भ्वा कश्यपवध्वा सह वसतिमकरोत् । अथ क्षणं मुष्टवाहोऽनपनीतनेत्रावरण एव स्थापितः । यावत् स चौरो गैरिकखण्डेन तद्गृहद्वारफलके त्रिशूलचिह्नमकरोत् । चर्मकारं चापनीतनेत्रबन्धं विधाय सोऽप्राक्षीत्—। भद्र, कस्येदं गृहम् ? स तु प्रत्युवाच—। नाहमेतत्स्वामिनं वेद्मि । अहं हि सुदूरचत्वरवासी ।

 १६. अथास्माच्चर्मकाराद्बोद्धव्यं किमपि नावशिष्टम्—इति मत्वा स तस्मै गृहगमनाय मुमोच । मुञ्चंश्चोवाच—। बहूपकृतं त्वया मे—इति । आत्मनो जिज्ञासां सफलां प्रेक्ष्य स चोरः परितुष्टः । स्वीयां सिद्धिं वनगताय नायकय निवेदयितुं सत्वरं प्रस्थितः । मेने च—। मदीयमिदं चेष्टितमाकर्ण्य मत्सहचरा अपि मया समं तुष्येयुः—इति ।

———————————