पृष्ठम्:चोरचत्वारिंशीकथा.djvu/२८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

२५


 २. अथ तेषां नायकोऽब्रवीत्—। ज्ञाताः खलु वयं चोराः । अस्मत्कोशगुप्तिस्थानमपि परस्य विदितम् । अत्रास्माभिः कोऽपि प्रतीकारोऽवश्यं कर्तव्यः । नोचेत्, न केवलमल्पाल्पश आत्मनो वसुसंचयः, किंतु जीवितान्यपि नश्येयुः । अतो जीवद्भिरस्माभिः प्राणानपि पणीकृत्य निजवित्तहरणं रक्षितव्यम् । तथा चोक्तम्—

  स्ववित्तहरणं दृष्ट्वा यो जीवेदप्रतिकियः ।
  पितरोऽपि न गृह्णन्ति तद्दत्तं सलिलाञ्जलिम् ॥ २६ ॥

 मन्ये, इत्थमिदं संवृत्तम्—। यो नरोऽस्माभिर्हतः, तेन केनापि प्रकारेण गुहाप्रवेशरहस्यं विदितमासीत् । ततश्च निर्गन्तुमुद्यत एव तस्मिन् भाग्यादेव वयं गुहां प्रत्यागताः । पश्चात् केनापि तस्य शवो द्रव्यं च कियदप्यपनीते । तस्मादेतत्स्फुटं भाति—। यत्कश्चित्तस्य सहचरोऽपि प्रवेशरहस्यं जानाति । अतो जिजीविषुभिरस्माभिरकालहीनं स सहचरोऽन्वेष्टव्यः । एवमुक्त्वा सोऽनुचरान्पप्रच्छ—| कथं वात्र यूयं मन्यध्वे ?

 ३. एतस्मिन्सर्वैरपि तैः समं भणितम्—। प्रसन्नस्ते तर्कः। इच्छामश्च—। यावदस्मद्रहस्यवेदी नरो नोपलभ्य व्यापादितः, तावदस्माभिः किमपि कार्यान्तरं न चिन्तनीयम्—इति ।

 ४. अथ चोरपतिरनुचरानाह-। बाढम् । युष्माकं मध्ये य आत्मानं धीरं चतुरं निर्भयं च गणयेत्, तेनाध्वगवेपं परिधाय नगरं गन्तव्यम् । तत्र चान्वेष्टव्यम्—। यदि जनाः कस्यचित्पुरुषस्य, अकाण्डमरणमुद्दिश्य प्रलापपरा भवेयुः । एतावदुपलभ्य भूयोऽप्यन्विष्य जिज्ञासितव्यम्—। कोऽसौ मृतः पुरुषः, कश्च तस्य निवासः ?—इति । एतत्सर्वमविज्ञाय, अस्मिन्वस्तुनि वयं किमपि कर्तुं न समर्थाः । भूयोऽपि सोऽभाषिष्ट—। अवधार्यतां