पृष्ठम्:चोरचत्वारिंशीकथा.djvu/२९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

२६


भोः—। यदेतस्मिन्कार्ये प्रवृत्तो नरः, अनवधानाद्वा विधिनियोगाद्वा जनैः परिज्ञातश्चेत्, सर्वेऽपि वयं हतप्राया एव। अतो युष्माभिः सर्वैरपि प्रतिपत्तव्यम्—। यद्यः कोप्यस्मिन्साहसे प्रवृत्य वन्ध्ययत्नो भवेत्, सोऽस्माभिस्तत्क्षणं हन्तव्यः। अपीदमभिमतं भवताम् ? । इति नायकेनोक्ते सर्वैरपि मोषकैः—उदारः कल्पः—इत्युक्त्वा तन्नायकवचनं सानन्दं प्रतिपन्नम् ।

 ५. अथ तस्मिन्साहसे नायकेन नामग्राहं कस्यापि नियोगात्पूर्वमेव तेषामन्यतमः प्रोवाच—। स्वयमेवाहमेतस्मिन्कर्मणि प्रथमं प्रवर्ते । किं च स्वर्ग्याणां कृते स्वजीवितं संशयमारोपयामि—इति चिन्तयन्यत्सत्यं धन्यमात्मानं कलये ।

 ६. स चोराग्रणीरितरे च तं तस्य साहसाभ्युपगमं प्रशशंसुः। अथ स आत्मानं नेपथ्यादिभिस्तथा भूषयामास यथा न कश्चित्तं चोरं शङ्केत । ततोऽधिपतिं च सहचरांश्चापृच्छ्य स पुरमुद्दिश्योदचालीत् । तत्र च, उषःकाल एव संप्राप्तः । अथ तत्र नगरे रथ्यायामितस्ततो भ्रमन् स पूर्वोक्तस्य मुष्टवाहनाम्नश्चर्मकारस्य कर्मशालामपावृतां ददर्श । या यथोक्तपूर्वं तत्स्वामिना, अन्यापेक्षया प्रागेव प्रत्यहमपाव्रियते स्म ।

 ७. तदा स चर्मकारः काष्ठपीठोपविष्टः, आरां करेणादाय कर्मणि प्रवर्तितुमुद्यत एवासीत् । यावत्स चोरस्तमुपस्थाय ‘सुप्रभातं ते भूयात्’ —इत्युवाच । तं च परिणतवयसं दृष्ट्वा स बभाषे—। आर्य, कथमेतावति प्रत्यूष एव कर्मणि प्रवर्तसे ? कथमिदं संभवति—यत्त्वादृशो जीर्णो नरः, अनुदित एव दिनकरे, गुणेन चर्म सेवितुं प्रभवति ? यस्मात्त्वादृशस्य जरठस्य चक्षुषी, भास्वति भृशं भासमानेऽपि नैव सीवनसमर्थे भवेताम् ।