सामग्री पर जाएँ

पृष्ठम्:चोरचत्वारिंशीकथा.djvu/२७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

२४

  वृक्षमूलेऽपि दयिता यत्र तिष्ठति तद्गृहम् ।
  प्रासादोऽपि तया हीनः कान्तारसदृशो मतः ॥ २३ ॥

 इति विमृश्य विवाहकामोऽसौ स्वजातीयसंप्रदायमनुसृत्य भ्रातृभार्यां विधवां विधिवत्परिजग्राह । संपन्नेन विवाहभोजनेन सर्वान्पौरान्प्रीणयामास च ।

 ११. अथ ज्येष्ठस्तस्य तनयः श्रीमतः कस्यापि वणिजः कर्मशालायां भृत्य आसीत् । तस्मै स कश्यपस्य पण्यशालां विततार । व्याजहार च—। त्वं चेत्केवलं सर्वात्मनोद्यमं कुर्याः प्रभूतं धनं प्राप्त्यसि । येन त्वं श्रीमत्सु गण्यतां गमिष्यसि । तथाविधेनापि त्वया भूयान्स्वोत्कर्षः साधयितव्यः । तथा चोक्तम्—

  मास्तं गमस्त्वं लोकेषु विश्रूयस्व स्वकर्मणा ।
  सा मध्ये मा जघन्ये त्वं माऽधो भूस्तिष्ठ गर्जितः ॥ २४॥


सप्तमो भागः

दस्यूनामलिपर्वगृहोपलब्धिः

  को न याति वशं लोके मुखे पिण्डेन पूरितः ।
  मृदङ्गो मुखलेपेन करोति मधुरध्वनिम् ॥ २५ ॥

 १. द्वित्रैर्वासरैस्ते लुण्ठका भूयोऽपि गुहामागताः। कश्यपस्य शरीरमपनीतं कतिपयाश्च प्रसेविका अपहृता अपश्यन् । येन विस्मयोद्वेगस्तिमितास्ते बभूवुः ।