पृष्ठम्:चोरचत्वारिंशीकथा.djvu/१९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

१४

विष्टाः । एतत्तु तेषां स्फुटीभूतम् , यदन्तर्गुहं प्रविष्टः कश्यपो बहिर्गन्तुम समर्थ आसीत् । कि तु कथं तेनात्र प्रवेशः कृतः । इयेव तैः परमार्थतो जिज्ञासितम् । तपुनस्तेषां सर्वथा दुरूहमेवासीत् ।

 १०. तत्र गुहायां प्रकाशप्रवेशार्थे रन्ध्रमेकमूर्ध्वदेशेऽवर्ततैव । किंतु गुहाशिखरस्योत्तुङ्गत्वाद्वहिर्भागे च भित्तीनामृजुत्वादूर्वत्वाच्च प्रथमं ताव- द्रन्ध्रं यावन्नकोऽप्यारोढुं प्रभवेत् । अथ कथमप्यारुह्य रन्ड्रेण प्रविष्ट इत्यपि संभावितं चेत्तदपि चिनावतरणसाधनं नैव संभवेत् । ईदृशं च रज्ज्वादि किमपि साधनं तत्र तेषां दृष्टिपथं नागात् । अतस्तैश्चिन्तितम् सद्यो हतोऽयं चोरो न रन्ध्रेणानेनावतीर्णः । तथा हि नात्र निःश्रेण्यादिकं किमपि वर्तते । भूयश्च प्रोचुः। द्वारेणापि चोरप्रवेशो न संभवति । यतः, एतप्रवेशरहस्यमस्माकमेत्र विदितम् । तैर्न खलु ज्ञातम् । यत्पूर्वस्मिन्नेत्रत्रसरे तदधिपोच्चारित उद्धाटनमन्त्रोऽलिपर्वणा निभृतमाकर्णितः—इति ।

 ११. अथ सर्वैरपि तैरैकमत्येन व्यवसितम्- यदत ऊर्ध्वै स वसुं- राशिस्तैः सुनिपुणमवेक्षणीयः । येन न कोऽपि तमपहर्तुं पारयेत् इति । तदर्थं च तैर्निश्चितम् । यकश्यपस्य देहो द्विधा कल्पनीयः । तस्य खण्डे चान्तर्भागे द्वारस्य पार्श्वयोरवलम्बनीये–इति। मतं हि तैः- यथा तत्खण्ड दर्शनेन भविष्यति काले तेषां कोशं स्प्रष्टुं न कोऽपि धृष्णुयात् । किं तु सर्वोऽपि जानीयात्- ' तद्रविणापहारप्रयत्नः कां घोरां दशामा वहेत्–इति ।

 १२. तथानुष्ठाय द्वारं च निपुणं पिधाय लुण्ठनेन धनमर्जितुं ते सर्वे । भूयोऽपि चलिता: । नगरान्नगरं प्रवसतो. वणिक्सार्थानवस्कद्यवलुण्ठ्य च, ते धनानि समाहरन्ति स्म ।