पृष्ठम्:चोरचत्वारिंशीकथा.djvu/१८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

१५

 ७. अथ तुरगावरूढास्ते खङ्गानाचकृषुः । केचिच्च तत्खरस्वामिनं बाह्यायां वृक्ष्यराज्यामन्विष्यन्ति स्म । यावत्तेषां मुखरः शेषेः सहचरैः सह। द्वारमासाद्य विवृतिपद्यं पठितवान् ।

 ८. अतः पूर्वमेव, गुहान्तर्निरुद्धेन कश्यपेन सवेगमुपसर्पतां सप्तीनां खुरशब्दः श्रुत आसीत् । तेन चानुमितम्— यद्दस्यवो निवृत्ताः—इति । मेने च। अहमेतैश्चोरैर्ध्रुवं हन्तव्यः । तथापि मया यावच्छक्यमात्मा । रक्षणीयः । उक्तं हि मनीषिभि:

  अवश्यं प्राणिना प्राणा रक्षितव्या यथाबलम् ।
  त्यक्तं न किं तांस्त्यजता रक्षितं किं न रक्षता ॥ १७ ॥

 अथ स्वप्राणत्राणार्थं तीव्रतरं यत्नमास्थातुं स निश्चिकाय । तदर्थं च, समुचितं स्थानमिति कृत्वा, स द्वारस्य पश्चिमी भागमभजत् । येन, घिट्ट- तमात्रे द्वारे स झटिति निष्क्रामेत् । चिरं सुस्मूर्षितोऽपि यो मन्त्रस्तं नोप स्थितः, तमेवासौ स्तेनपतिना प्रोक्तं सविस्मयविषादमाकर्णयामास । द्वारं च सद्यो विघटितमीक्षांचक्रे। अथ प्राणान्परीप्सुः पलायमानः कश्यपश्चण्डं वेगमाश्रित्य द्वारं प्रति प्रधावितः । प्रविशन्नेव दस्युमुख्यःचण्डवेगेन तेन संघट्टमेत्य, तत्क्षणं भूमौ पपात । बहुभ्यः पुनस्तदनुचरेभ्यः कथं तेनात्मा रक्षितव्यः ? ते हि सर्वं खङ्गपाणयो द्वारदेशमावृत्य तस्थुः । तैश्वासौ तत्क्षणं व्यापादितः ।

 ९. प्रविष्टमात्राश्चोरा गुहागर्भ परितो निपुणं निरूपयामासुः । कश्यपेन गर्दभारोपणार्थमुपद्वारमानीताः प्रसेघिकास्तैरभ्यन्तरं नीताः । यथास्थानं । प्रतिष्ठापिताश्च । किं तु प्रभूतत्वात्प्रसेविकानां तत्पूर्वमलिपर्वणापहृतानां तासां हानिस्तैर्नैव विज्ञाता। अथ तमेवार्थं चिन्तयितुं ते सर्व एकत्रोप-