पृष्ठम्:चोरचत्वारिंशीकथा.djvu/१७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

१४

यदहमत्र न धनं दिदृक्षुः, किं तु धनं जिहीर्घःआगतोऽस्मि। एतदर्थं च वेसरदशकमपि मयानीतम् । ततोऽसौ दशवेसरपर्याप्तः स्वर्णपूर्णा: प्रसे विका द्वारदेशमनयत् । यतस्ता बालेयपृष्ठानि सुखं शीघ्रमारोपयेत् ।

 १. अधुना तस्य मनो लप्स्यमानवित्तस्य दर्शनेन भृशं व्यग्रमासीत् । येन गुहाद्वारविवृतिमन्त्रं स सर्वथा विसस्मार । एतावदेव केवलं बुबोध यत्किमपि देवताविशेषाभिधानं मन्त्रे वर्तते इति । अतः स रुद्रभैरववज्राङ्गा- दीनि कतिपयानि । देवतानामानि व्याहार्षीत् । किं तु नैकेनापि द्वारविघ टनं जातम् । यतस्तन्मन्त्रविशेषस्यैव पठनेन साध्यमासीत् ।

 ५. अथात्मानं दस्युगुहायां निरुद्धमालोक्य कश्यपः सभयश्चिन्तया मास- द्वारमेतद्वर्जयित्वा, अपरो बहिर्यानमार्गे नालोक्यते । घोरतरे खलु प्राणसंशये पतितोऽस्मि । व्यक्तमेष मतप्रमादस्यैव दोषः । तथा चोक्तम्

न हि प्रमादात्परमस्ति किंचिद्भयाय पुंसामिह जीवलोके ।
प्रमत्तमथ हि नरं समन्तात्त्यजन्त्यनर्थाश्च समाविशन्ति ॥ १६ ॥

 अथ तदवस्थोऽयम् , उपद्वारमुच्चयीकृताः प्रसेविकाः सखेदं निपातया मास । मन्त्रं च स्मर्तुकामः, इतस्ततो बभ्राम । किन्तु स मन्त्रो नास्योप स्थितः । अश्रुतपूर्व इवायमस्य संवृत्तः ।

 ६. अथ । पूर्वोह्णविहारं समाप्य मध्याह्नवेलायां दस्यवो गुहामुद्दिश्य चलिताः । गुहाया नातिदूरमेव पृष्ठगतरिक्तगोणिकान्कश्यपखरेश्वरतो ददर्श । सपदि विस्मितचेतसस्ते सर्वे महान्तं जवमातस्थुः। सममेव च गुहामुखं प्रधाविताः । तत्क्षणं च तान्गर्दभानितस्ततो दूरं विद्रावयामासुः । तथा हि, एते गर्दभाः कुत्र गच्छेयुः ?-इयेतयचिन्तया कि तेषां प्रयोजनम् ? केवलमेतदेव तैर्जिज्ञासितम्_क एतेषां स्वामी स्यात् इति ।