पृष्ठम्:चोरचत्वारिंशीकथा.djvu/१६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

१३


चतुर्थो भागः

गुहानिरुद्धः कश्यपः

  लोभाद्भवति संमोहः संमोहाद्वंशते स्मृतिः ।
  कर्माभावः स्मृतिभ्रंशात्स्यात्कर्माभावातो मृतिः ॥ १५॥

 १. एवं विदितवेदितव्यः कश्यपो ग्रहं निवृत्तः । अनुजन्मना प्रदत्तो धनसंविभागो न जातस्तस्य तोषाय। वाञ्छितं हि तेन– यच्छक्यं चेत् , अलिपर्वणः पूर्वं गुहां तामासाद्य निखिलं तद्गतं वस्तुजातमात्मसात्कुर्याम् ।

 २. एवं कृतमतिरयमन्येद्युः प्रत्यूषसि त्यक्तशय्यः, दश चक्रीवतः पृष्ठदत्तगोणिकान्विदधौ । तांश्चादाय गुहां प्रतस्थे। मार्गे चिन्तयामास। अद्याहं गुहावर्ति धनं खरारोपितासु गोणीषु भृत्वाहरि़ष्यामि । किं च, अव शिष्टं चेत्, तदर्थे द्वितीयेऽवसरे यथापेक्षितान्रासभान्नेष्यामि–इति । अथा लिनोपदिष्टं मार्गे गृहीत्वा तं वृक्षमुद्दिश्य चलितः, यस्मिन्नलिर्गूढोऽतिष्ठत् , यस्य च सविधे स गुहागिरिर्वर्तते स्म ।

 ३. ततश्च गुहाद्वारमासाद्य सोऽपाठीत्

  स्कन्दराज नमस्तेऽस्तु चौर्यपाटवदेशिक ।
  दस्युदेव द्वारमिदं विवृतं कृपया कुरु ॥ ८ ॥

 समनन्तरमेव द्वारं विवृतम्। कश्यपे चान्तः प्रविष्टं तत्स्वयमेव संवृतम् । अथ विपुलावकाशे तस्मिन्गुहागर्भे, तत् इतो दत्तदृष्टिरसौ व्यचारीत् । भ्रात्रा कथितादपि च समधिकं धनोच्चयमद्राक्षीत् । यथायथा च तत्रासौ विचचार, तथातथा गरीयग्नि विस्मये भनोऽस्य मज्जति स्म । धनलोभपर वशः कश्यपः स्वर्णं तप्रेक्षमाणाश्चरमस्थास्यात् । किं तु सद्यस्तेन स्मृतम्।