१७
पञ्चमो भागः
कश्यपशवोपलब्धिः
अविवेकाद्भवेन्मृत्युः कार्य सिध्येद्विवेकतः ।
कश्यपश्चालिपर्वा च मतावत्र निदर्शने ॥ १८ ॥
१. अथ प्रवृत्तेऽपि प्रदोषे कश्यपमनागतं प्रेक्ष्य तद्गेहिनी महती चिन्तामाविशत् । ससंभ्रमं च देवरगृहं गत्वा बभाण- देवर त्वया तु प्रायोऽनुमितं स्यादेव- यद्भ्राता तेऽनुदित एवारुणे वनं प्रस्थितः । तत्प्रयो- जनमपि तवावगतमेव । अधुना पुनः प्रवृत्तायामपि क्षपायां नासौ प्रत्या- गृतः । येन मानसं मेऽनिष्टमेवाशङ्कते ।
२. भ्रातुरतिमात्रमर्थलोलुपत्वं सम्यग्जानानोऽलिपर्वा प्रागेव चिन्तया- मास- यत्कश्यपोऽन्येद्युरेव चोरगुहां धनार्थ यायात्-इति । अत एव तद्ध- नविभागमुद्दिश्य तेन सार्धं कलह परिहतुकामोऽसौ दिने तस्मिन् गृह एवा- वतस्थे । उक्तं हि-
शतत्यागः कलेः श्रेयानिति स्यात्प्राज्ञसंमतम् ।
विना हेतुमपि द्वन्द्वमेतन्मूर्खस्य संमतम् ॥ १९ ॥
उदारचरितत्वाच्च मन्यते स्म-। अखिलमप्युर्वरितं धनं भ्राता चेदात्म- सात्कुर्यात्, न कामपि मदीयां हानि कलयामि । प्राप्तपूर्वेण हि धनेन मया यावदायुः सुखेन जीवितव्यम् । प्रजावती च प्रकाशं प्रोवाच- आर्ये, मन्ये- तमःप्रवृत्तेः प्राग्नगरप्रवेशो न क्षेमाय-इत्येव विचिन्त्य भ्राता मे निशाप्रवृत्तिमेव प्रतीक्षमाणः बहिर्विलम्बते । अतो मुहूर्तादिव तेन प्रत्यागन्तव्यम् । त्वया चात्र विषये न मनागपि चिन्ता कर्तव्या- इति ।