पृष्ठम्:चोरचत्वारिंशीकथा.djvu/१२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

तृतीयो भागः

भ्रातृश्राद्धम्

  अहो धनवतामेव धनलोभो निरन्तरम् ।
  पश्य कोटिद्वयोपेतं लक्षाय प्रणतं धनुः ॥ १२ ॥

 १. अथालिपर्वणो भार्या गृहं निवृत्ता । स्वर्णमुद्राश्च मातुं प्रवृत्ता । सा तन्मानं मुद्राभिभूयोभूयः पूरयामास रेचयामास च । वेदिकायां च नाति- तुङ्गान्मुद्रोच्चयान्नचयामास । ततोऽन्यतमोच्चयगतानि सुवर्णानि सा संक- लयामास । ततश्चैकीभूतः सुवर्णराशिः कतिमुद्रो भवेत् इति सा बुबोध । एतदनुष्ठाय सा भर्तारमुपससार । तस्मै च मुद्रसंख्यां कथयामास । अनेन समयेन तस्य गर्ताखननं समाप्तप्रायमासीत् । यावच्चासौ कनकजातमगारत उद्यानमवहत् , तावत्सा मानं प्रत्यर्पयितुं गता । किंतु तया न लक्षितम्, यन्निष्क एको मानस्यान्तस्तले लग्नस्तिष्ठति इति । अथ देवरभार्या मुपेत्याब्रवीत्- मानं ते मया तूर्णमानीतम् । अनुगृहीतास्मि भवत्या मानं मानाय मह्यं ददत्या—इति । ततः सा गृहं प्रति निवृत्ता ।

 २. कश्यपपत्न्या चिन्तितमासीत् - । यथा दैवतः प्राप्तं प्रभूतं किमपि धान्यं पिष्टं वा मातुं मानं मे यात्रा नीतं भवेत् । तस्यां च निष्क्रान्तायामेव, कश्यपवधूर्मानस्यान्तस्तलं पाणिना परामृशत् । तत्र च हेमनिष्कमा सक्तमासाद्य विस्मयवशमयासीत् ।

 ३. तदा, निर्धनो मे देवरो धनमधिगतवान् इति मत्वा सा न तुतोष । किंतु संजातमत्सर भृशं विव्यथे । सा भूयोभूयः स्वगतं बभाषे- कथं हताशौ मे देवरश्व याता च धनसंपदा न केवलमावयोः