पृष्ठम्:चोरचत्वारिंशीकथा.djvu/१३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

१०

साम्यं किंतु समधिकभावं स्पृशतः ! अहो अद्भुतम्, यद्यातुर्मे काञ्चनस्य संचयः । स च न संख्यया संख्येयः । किंतु केवलं मानेन मेयः । कुतोऽनेन देवृहतकेन सर्वमिदं समासादितं स्यात् ?-इति तु दूरेण मे तर्कमतिवर्तते ।

 8. समयेऽस्मिन्कश्यपो गृहे न संनिदधे । यथानित्यमखिलं दिनं पण्य शालायामतिवाह स प्रदोषे गृहं प्रत्यागमत् । भ्रातुर्विभवातिशयं श्रुत्वा भर्ता मे भृशं विस्मयेत-इति तया विचन्तितम् । किंच, तमधिकृत्य भर्तारं भाषितुं सा बलवदुत्कण्ठिता । तदागमनं च यावत्कथंकथमपि कालं यापयामास । चिन्तयामास च- । अहो मन्दं कालो व्रजति । अथ चिरेण गृहायातं तं सा बभाषे- मन्ये त्वमात्मानमलिपर्वणो धनीयांसं कलयसि। । किंतु भ्रान्तिरेवेयं त्वदीया। स हि श्रीमत्वेन त्वत्तो भूयसातिरिच्यते । तदीयं धनं संख्यातिवर्तित्वान्मानेनैव परिच्छेदक्षमम् । एतदाकर्ण्य तां कश्यपः पप्रच्छ किमेतदुद्यते त्वया ? न खलु विभावयामि । स्फुटं कथय ।

 ५. एवं पृष्टा सा तमभाणीत् यात्रा मे मानभाण्डं याचित्वा नीतं प्रत्यानीतं च । मया च निपुणोपायेन किमेनया मितम् इति ज्ञातम् । एवं भणित्वा सा तत्प्रत्यायनार्थे जातरूपनिष्कं तस्मै दर्शयामास । स तु निष्कः पुरातनत्वान्मनुजरादिना च भूयः स्पृष्टत्वात्तथा मसृणः संजातः, यथा तद्गतं राजमुद्रादिकं स न विभावयामास ।

 ६. गर्भेश्वरीं कन्यामूढवान्कश्यपः, दरिद्रं कनीयांसमात्मनो भ्रातरं न जातु सस्नेहमुपाचरत् । न वा किमपि साहाय्यं तस्यानुतष्ठौ । किं च सोदरोचितमादरपि तस्मै न दर्शयामास । उक्तं हि--