पृष्ठम्:चोरचत्वारिंशीकथा.djvu/११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

निखनेव । ततश्च कालेकाले यथेष्टां मात्रामुद्धरिष्यावः । किंतु, सद्य एव धनमेतत्सुगुप्तं कर्तव्यम् । मा कश्चित्तस्य वार्तामपि जानीयात् ।

 ७. भार्या प्रत्युवाच नाथ युक्तमुक्तं त्वया । किंतु, मास्तु सर्वथा सूक्ष्मतः, यावत्सूक्ष्ममपि तावज्ज्ञातव्यमेवेदं मया-1 कियद्धनमावयोर्वर्तते । अतोऽहं गत्वा कस्याश्चित्प्रतिवेशिन्याः कुडवमेकमानेष्यामि । खननव्यापृते च त्वयि तद्वसु मास्यामि । एतस्मिन्भर्त्रा; भणितम्- किमेतेन धनेन मानतो ज्ञातेन ? करोषि चेन्मद्वचनम् , तिष्ठतु तत् । अथ बलवती ते वाञ्छा, मीयतामिदम् । कस्मैचित्पुनर्नाख्यायताम् ।

 ८. एवं कथमपि भर्तुरनुज्ञा लब्ध्वा सा नातिदूरस्थितं यातुरगारमगात् । तां चोपस्थाय मानभाण्डं ययाचे । तया भाषितम्- एषाहं ददामि । किं तूच्यतां तावत्कियद्मानं, लघु बृहद्वा, त्वयापेक्ष्यते । सा प्रत्यभाणीत्-। अल्पेनैव मानेन ममार्थः संपद्येत। तन्निशम्य कश्यपभार्या प्रत्युवाच क्षण- मेकं प्रतिपालय । यावदहमभ्यन्तरान्मानमानये ।

 ९. अथान्तर्गता सा स्वगतं बभाषे- जानामि खलु गाढमकिंचनत्वम- लिपर्वणः । तस्य गेंहं कुतो मानपर्याप्तो धान्यराशिः ? मानेन तस्य प्रयोजनं स्यात्-इत्येतद्विचिन्तयन्त्या मम, यत्सत्यं महान्विस्मयो जायते । मया पुनस्तत्कारणं चातुर्येण ज्ञातुं शक्यम् । एवं विचार्यासौ, अन्तर्मानं तलदेशे जतुलेशमासञ्जयामास । तच्च मानं यातरमुपनीयाब्रवीत्। किं करोमि ? न मया मानं शीघ्रमासादितम् । येन त्वं कालप्रतीक्षा कारिता । एतत्त्वं क्षन्तुमर्हसि ।