पृष्ठम्:चोरचत्वारिंशीकथा.djvu/१०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

शशाक । तया ह्येतावान्धनराशिरा जन्मनः कदापि नालोकितः । यत्स- त्यम्, अखिलेऽपि जगति विद्यमानेन धनेन पिण्डीकृतेनाप्येतावता भाव्यम् इत्येतदपि तस्याः कल्पनासरणिं नावतीर्णपूर्वम् ।

 ३. अथ मुहूर्तेनेव वाचः प्रभवन्ती सा भर्तारमप्राक्षीत्- कुत इदम् ? कथं वा समासादितम् ? को वास्य स्वामी ?-इति । एवं पृष्टोऽसौ प्रत्युवाच। मा तावत् । क्षणं जोषमास्व । यथाकालं सर्वमेतज्ज्ञास्यसि । ततः स सर्वा अपि गोणीभूमावेकैकश आवर्जयामास । सर्वे च तद्गतं धनमेकरा शीचकार । पुञ्जीभूतं तत्कनकं प्रेक्षमाणायास्तस्याश्चक्षुपी प्रतिजघान, हृदयं च लोभयामास ।

 ४. साचिन्तयत्- अहो शोभनम्, यदि सर्वमेतदस्मदीयं स्यात् । तथा हि सति भर्तृमें वनगमनेन वृक्षच्छेदनेन च प्रयोजनमेत्र न स्यात् । नाप्यपराह्नसमयं यावकाष्ठपाटनेन । न वेन्धनविक्रयार्थमासायं नगरभ्रमणेन। सर्वैरप्यस्माकं मनोरथैः संपत्तव्यम् । न वा पुनरस्माभिरायसितव्यमपि ।

 ५. अथोभावपि तौ भूम्यामुपविष्टौ । अलिपर्वा च जायायै मूलतो वर्णयामास- कथं तेन तस्वर्णमासादितम् । अब्रवीच्च-| भूयश्च तत्र गच्छेयम् । इतोऽपि प्रभूतं धनमाहरेयम् । किंतु रहस्यमेतत्त्वया सर्वथा । रक्षणीयम् । तदधिकृत्य कस्मैचित्किंचिदपि न वक्तव्यम् ।

 ६. आवयोरेव सर्वमेतद्वित्तम्-| इति विदित्वा सा गृहिणी हर्पनिर्भरा बभूव । सपदि च, धनमानं जिज्ञासुरसौ समुत्थाय तद्रता मुद्रा एकैकशो भूयोभूयः संख्यातुमारेभे । तां भर्तोवाच- प्रिये किमिदमारब्धं त्वया ? बहुलत्वान्नैतद्गणयितुं शक्यम् । उद्याने गर्तामेकां निर्माय स्वर्णमेतत्तत्र